५६८ कथासरित्सागरः । [ आदितस्तर महावीरोऽप्यभूद्राजा स भीरुः परलोकतः । शरोऽपि चाचण्डकः कुभतीर्यङ्गनाप्रियः । स पिता पितृहीनानामबन्धूनां स बान्धवः । अनाथानां च नाथः स प्रजानां कः स नाभवत् श्वेतद्वीपस्य दुग्धाब्धेः कैलासहिमशैलयोः । निर्माणे तद्यशो नूनमुपमानमभूद्विधेः । एकदा च तमास्थानगतं भद्रायुधो मृपम् । प्रविश्य विक्रमादित्यं प्रतीहारो व्यजिज्ञपत् । प्रेषितस्य ससैन्यस्य दक्षिणाशाविनिर्जये । पार्श्व विक्रमशक्तेयं देवेन प्रेषितोऽभवत् । स दूतोऽनङ्गदेवोऽयमागतो द्वारि तिष्ठति । स द्वितीयो मुखं चास्य हृष्टं वक्ति शुभं प्रभो प्रविशत्विति राज्ञोक्ते स द्वितीयं स तत्र तम् । प्रावेशयत्प्रतीहारोऽनङ्गग्देवं सगौरवम् । प्रविष्टः सप्रणामं च जयशब्दमुदीर्य सः। उपविष्टोऽप्रतो दूतस्तेनापृच्छयत भूभुजा । कश्चिद्विक्रमशक्तिः स सेनानी कुशी नृपः। कचिञ्छत्रुघलाद्यश्न नृपाः कुशलिनोऽपरे । अन्येषां राजपुत्राणां प्रधानानां च तद्वले। कश्चिच्छिवं गजाश्वस्य रथपादतकस्य च । इति भूमिभृता पृष्टोऽनङ्गदेवो जगाद सः । शिवं बिक्रमशक्तेश्च सैन्यस्य सकलस्य च । सापरान्तश्च देवेन निर्जितो दक्षिणापथः। मध्यदेशः ससौशः सबङ्गाङ्गा च पूर्वदिछ । सकश्मीरा च कौबेरी काष्टा च करदीकृता । तानि तान्यपि दुर्गाणि द्वीपानि विजितानि च । म्लेच्छसंघाश्च निहताः शेषश्च स्थापिता वशे । ते ते विक्रमशक्तेश्च प्रविष्टाः कटके नृपाः । स च विक्रमशक्तिस्तै राजभिः सममागतः । इतः प्रणषकेषवाते द्वित्रेष्वेव खलु प्रभो । एवमाख्यातवन्तं तं तुष्टो वर्विभूषणैः। प्रामैश्च विक्रमादित्यो दूतं राजाभ्यपूरयत् । अथ पप्रच्छ नृपतिः स तं दूतवरं पुनः । अनङ्गवेब के देश गतेनात्र विलोकिताः ॥ स्वया कुत्र च किं दृष्टं कौतुकं भद्रं कथ्यताम् । इत्युक्तो भूभृतानङ्गदेवो वक्तुं प्रचक्रमे । इतो देवाज्ञया देव गत्वाहं प्राप्तवान्क्रमात् । पाथै विक्रमशक्तेरतं सेनासमुदयं तव ।। मिलितानन्तनागेन्द्रसश्रीकहरिशोभितम् । समुद्रमिव विस्तीर्णं सपक्षक्ष्माभृदश्रितम् । उपागतश्च तत्राहं तेन विक्रमशक्तिना । प्रभुणा प्रेषित इति प्रणतेनातिसत्कृतः ।। यावत्तिष्ठामि विजयस्वरूपं प्रविलोकयन् । सिंहलेश्वरसंबन्धी दूतस्तावदुपागमत् । राज्ञो ह्यभूतस्तेऽनङ्गदेवः स्थितोऽन्तिके । इति मे कथितं दूतैस्त्वत्पार्श्वप्रहितागतैः । तदेतं त्वरयानङ्गदेवं प्रहिणु मेऽन्तिकम् । कल्याणमस्य वक्ष्यामि राजकार्यं हि किंचन ॥ इति स्वप्रभृवाक्यं च स दूतः सिंहागतः मत्संनिधाने वक्ति स्म तस्मै विक्रमशक्तये ततो वित्तमशक्तिर्ममवदद्गच्छ सत्वरम् । सिंहलेशान्ति पश्य त्वन्मुखे किं ब्रवीति सः । अथाहं सिंहलाधीशदूतेन सह तेन तत् । अगच्छे सिंहलद्वीपं बहनेनाब्धिवर्मना । राजधानीं च तत्राहमपश्यं हेमनिर्मिताम् । विचित्ररत्नप्रासादां गीर्वाणनगरीf तस्यां च वीरसेनं तमद्राक्षी सिंहलेश्वरम् । घृतं विनीतैः सचिवैः सुरैरिव शतक्रतुम् । स मामुपेतमाहृत्य पृष्ट्वा च कुशलं प्रभोः। राजा विश्रमयामास सत्कारेणात्र भूयसा ॥ अन्येद्युरास्थानगतो' मामाहूय स भूपतिः। युष्मासु दर्शयन्भक्तिमवोचन्मत्रिसंनिधौ । अस्ति मे दुहिता कन्या मर्ययलोकैकसुन्दरी । नाम्ना मदनलेवेति तां च राज्ञे ददामि वः ॥ तस्यानुरूपा भार्या सा स तस्याश्चोचितः पतिः । एतदर्थं त्वसहूतस्त्यस्वाम्यर्थं प्रतीप्सता । गच्छ च स्वमिने वक्तुं सदूतेन सहमतः । अहं तवैवानुपदं प्रहेयास्यत्र चास्मजाम् उक्त्वेत्यानाययामास स राजा तत्र तां सुताम् । भूषिताभरणभोगां रूपलावण्ययौवनैः खपवेश्य च तामी दर्शयित्वा जगाद माम् । त्वत्स्यामिने मया दत्ता कन्येयं गृह्यतामिति । अहं च राजपुत्रीं तां दृष्ट्या तपविस्मितः । प्रतीप्सितैषा राजार्थं मयेति मुदितोऽब्रवम् । अचिन्तयं च नश्चयैविधौ तृष्यत्यहो विधिः । तदुत्तमामिमां चक्रे यत्कृत्वापि तिलोत्तमाम् ॥ ततोऽहं सत्कृतस्तेन राज्ञा प्रस्थितवांस्ततः । द्वीपाङ्गवलसेनेन तदूतेन सद्दामुना ।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति