५७० । कथासरित्सागरः । [ आदितस्तरङ्गः १२ एषाहं धनदभ्रातुर्मणिभद्रस्य गेहिनी । दुन्दुभेर्यक्षराजस्य सुता मदनमजरी ॥ साहं तीरेषु सरितां शैलैपूपवनेषु च । मनोहरेषु व्यहरं भर्ना सह सुखं सदा । एकदा च गतावमुज्जयिन्यामहं किल । उद्यानं मकरन्द ख्यं विहर्तु वल्लभान्विता । तत्र दैवादुषस्येकः खण्डकापालिकाधमः । विहारश्रमसंसुप्तप्रबुद्धां पश्यति स्म माम् । स कामवशगः पापो भार्यात्वे होमकर्मणा । मन्त्रेण मां साधयितुं प्रावर्तिष्ट श्मशानगः ॥ तदहं स्वप्रभावेण बुद्ध भनें न्यवेदयम् । तेनाप्यावेदितं भ्रातुर्योयसो धनदस्य धनाध्यक्षेण गत्वा च विज्ञप्तः कमलोद्भवः । स चापि भगवानेवं ब्रह्म ध्यात्वा तमभ्यधात् । सत्यं स भ्रातृजायां ते कपाली हर्तुमुद्यतः । यक्षसाधनमत्राणां शक्तिस्तेषां हि तादृशी । तया तु विक्रमादित्यो मन्त्रेणाकृष्यमाणया । आक्रन्दनीयो नृपतिः स रक्षिष्यति तां ततः । एतद्रह्मवचोऽभ्येत्य मद्भनें धनदोऽब्रवीत् । मत्तो मदमाह स्म ङमश्रचकितान्मने ॥ तावच्च क्रमसिद्धेन मन्त्रेणाकृष्टवान्स माम् । होमं कुर्वञ्श्मशानस्थः खण्डकापालिकः स्वतः ॥ अहं च सत्राक्रुष्टा तद्वित्रस्ता पितृकाननम् । प्रापमस्थिकपाळाव्यं भैरवं भूतसेवितम् । तत्रापश्यं च तं दुष्टकापलिकमहं तदा । हुताग्निमर्चितोत्तानशवाधिष्ठितमण्डलम् । स च कापालिकः प्राप्तां दृष्ट्वा मां र्पमोहितः । अगात्कथंचिदाचान्तुं नदीं दैवाददूरगाम् । तरक्षणं संस्मृतब्रह्मवचनाहमचिन्तयम् । किं नानन्दामि राजानं स रात्रौ जात्विह भ्रमेत् । इत्येतचिन्तयित्वोच्चैस्त्राक्रन्दितवत्यहम् । परित्रायस्व मां देव विक्रमादित्य भूपते ।। जगद्रक्षमणे पश्य बळाकुलवधं सतीम् । गृहिणीं मणिभद्रस्य धनाध्यक्षानुजन्मनः॥ दुन्दुभेस्तनयां यक्ष नाम्ना मदनमञ्जरीम् । कापालिकोऽयं त्वद्राज्ये मां ध्वसयितुमुद्यतः॥ इत्याक्रन्दितवत्येव ज्वलन्तमिव तेजसा । कृपाणपाणिमायान्तं तमद्राक्षमहं नृपम् ।। स च सामवदत्र द्वे मा भैषीर्निर्दूता भव । अहं कापालिकस्माद्रक्षामि भवतीं शुभे । को हि राज्ये ममाधर्ममीदृशं कर्तुमीश्वरः। इत्युक्त्वान्निशिखं नाम वेतालं स समाह्वयत् स चाहूतो ज्वलनेत्रः प्रांशुरूर्ध्वशिरोरुहः । उपेत्यैवात्रवीधूपं किं करोम्यादिशे अथ राजाश्रयीदेष परदरापहारकृत् । पषः कापालिको हृत्वा भवता भक्ष्यतामिति । ततः सोऽग्निशिखस्तस्मिञ्शवेऽचमण्डलस्थिते । प्रविश्याधावदुत्थाय प्रसारितभुजाननः । अग्नीज़ द्वयोः पश्चात्तं चाचान्तपरागतम् । कापालिकं स वेताळः पलायनपरायणम् । नभसि भ्रामयित्वा च क्षिप्रमास्फोट्य च क्षितौ । देहें मनोरथं चैव सभमस्य व्यचूर्णयत् । इतं कापालिकं दृष्ट्वा भूतेष्वामिषगर्धिषु । आगाद्यमशिखो नाम वेतालस्तत्र दुर्मदः। एयैव तदगृहस कापालिककळेवरम् । ततः सोग्निशिखः पूर्वो वेतालस्तमभाषत । अरे श्रीविक्रमादित्यदेवस्याद्देशतो मया । कापालिकोऽयं निहतो दुराचर त्वमस्य कः । एतद्ध्वा यमशिखः प्राह त्वं ब्रूहि तर्हि मे । किंप्रभावः स राजेति ततः सोऽग्निशिखोऽब्रवीत् । तटप्रभावं न चेद्वेत्सि तदहं शृणु वच्मि ते ।इहड्डाकिनेयाख्यः सुधीरः कितवः पुरि।। स जातु हृतसर्वस्वः कितवैर्युतमायया । अधिकावजितान्यार्थनिमित्तं तैरवध्यत ॥ अस्खत्वाददन्तं च तैरेव लगुडादिभिः । ताड्यमानोऽवतस्थे च भावभूतो मृतो यथा ॥ स सभ्यैः सर्वैस्तैर्नात्वा पापैः सा चिक्षिपे । महान्धकूपे संभाव्य जीवतोऽस्मात्प्रतिक्रियाम् ।। स च तत्रातिगम्भीरे कितवो डाकिनेयकः । कूपे भ्रष्टो ददर्शाग्रौ महान्तौ पुरुषावुभौ । तौ च तं पतितं साम्ना दृष्ट्वा भीतमपृच्छताम् । कस्त्वं कुतश्च कूपेऽस्मिन्पतितोऽस्युच्यतामिति ॥ अथाश्वस्य स्ववृत्तान्तं धृतकारो निवेद्य सः । तावष्यपृच्छङ्कतं मे कौ कुतश्च युधामिह । तच्छुत्वा तौ जगदतुः पुरुषाववट स्थितौ । आवामस्याः पुरो भद्र श्मशाने ब्रह्मराक्षसौ । अगृहीत्र च तामत्रसिदैव पुरि कन्यके । मुख्यमन्त्रिसुतामेकासन्यां मुख्यवणिकूसुताम् ।।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति