५७८ कथासरित्सागरः। [ आदितस्तरङ्ग कैौतुकाच्च स यावत्तामुद्धाटयति चित्रकृत् । तावद्ददर्श तत्रान्तश्चित्रस्थां पुत्रिकां पटे । दृढूवाद्भुतरूपां तां नीत्वा नृपतये ददौ । प्राभृतं प्रत्युतेद्योगी सिद्धमदीति हऍलः ।। नृपतिस्तां तु द्रौत्र साश्चर्यः स जगाद तम् । न भद्र तव रेखेयं रेखेयं विश्वकर्मणः । मानुषो हि कुतो वेत्ति लिखितुं रूपमीदृशम् । तच्छुत्वा चित्रक्रुद्राक्ष यथावृत्तं शशंस सः । ततः सोऽनन्ययग्राजा तां पश्यन्पुत्रिकां सदा । स्वप्ने द्वीपान्तरेऽद्राक्षीतद्रुपामेव कन्यकाम् । संगमं भजते यावत्सोत्कः सोत्सुकया तया । तावत्प्रबोधितः सोऽभूद्यामिकैन निशाक्षये । प्रबुद्धो भग्नतत्स्वप्नसमागमसुखश्च सः । यामिकं तं क्रुधा राजा नगर्या निरकालयत्। क्क पान्थः पुस्तिका कस्य क् तस्यां चित्रपुत्रिका । तस्या एव सजीवायाः स्वप्ने संदर्शनं क्व च ॥ तदेषा दैवघटना कन्या सास्तीति वक्ति मे । न च जानामि तद्वीपं प्राप्नुयां तस्कथं नु ताम् ॥ इत्यादि चिन्तयन्सोऽथ सर्वत्रारतिमाधूपः । स्मरज्वरेण जज्वाल पर्याकुलपरिच्छदः ॥ ससंतापश्च विजये क्षत्रा भद्रायुधेन सः । शनैतत्कारणं पृष्टो जगामैवं महीपतिः । शृणु तद्वच्मि ते मित्र ज्ञातं ताबद्दस्त्वया । यच्चित्रपुत्रिका तेन दत्ता चित्रकरेण मे । तां चिन्तयंश्च सुप्तोऽहं स्वप्ने जानामि वारिधिम् । उत्तीर्यं प्राप्य नगरं प्रविष्टोऽस्म्यतिसुन्दरम् । तत्रापश्यमहं बहीः सायुधाः कन्यकाः पुरः । ता मां दृष्ट्वा जहि जहीत्युचैः कलकलं व्यधुः । ततः ससंभ्रमा कापि जाने मामेत्य तापसी । प्रवेश्यैव निजं गेहं संक्षेपादिदमब्रवीत् । पुरुषद्वेषिणी पुत्र राजपुत्रीयमागता । इतो मलयवत्याख्या विहरन्ती यदृच्छया । दृष्टमात्रं च पुरुषं कन्याभिर्धातयत्यसौ । एताभिस्तेन रक्षार्थं मयेह त्वं प्रवेशितः ॥ इत्युक्त्वा तापसी सद्यः स्त्रीवेषं सा व्यधान्मम । अवध्याः कन्यकास्तास्तु मत्वा सोढं सयापि यावत्प्रविष्टामनैव सकन्यां तां नृपात्मजाम् । पश्यामि तावच्चित्रस्था या मयादी सैव सा । अचिन्तयं च धन्योऽहं यचित्रलिखितामिमाम् । दृष्ट्वा पुनश्च पश्यामि साक्षात्प्राणसमामिति । राजपुत्री च सा तावत्तापसीं तां सकन्यका । दृष्टोऽस्माभिः प्रविष्टोऽत्र पुमान्कोऽपीत्यभाषत । पुमान्कुतः प्राघुणिका स्थितैषा मे स्वसुःसुता । इति तां तापसी सापि प्रत्यवोचरप्रद्र्यं माम् । ततः सा राजतनया स्त्रीरूपमपि वीक्ष्य माम् । विस्मृत्य पुरुषद्वेषं सद्यः स्मरवशाभवत् । आसीत्कण्टकिता किंचिञ्चिन्तयन्तीव निश्चला । लब्धच्छिद्रेण कामेन कीलितेव समं शरैः । क्षणाच्च तापसीं तां सा व्याहरद्राजकन्यका । तह्यै त्वत्स्वसृसुता समापि प्राघुणी न किम् । आयातु मर्तृहमियं प्रहेष्याम्यचतामिमाम् । इत्युक्त्वादाय पाणौ मामनैषीत्सा स्वमन्दिरम् । अहं च लब्धचित्तोऽस्या जाने तत्र तथेत्यगाम् । अन्वमन्यत मां सापि विदग्धा वृद्धतापसी । ततोऽहं स्थितवांस्तत्र राजपुत्र्या तया सह । क्रीडन्त्या कन्यकान्योन्यविवाहादि विनोदनैः । न च माममुचत्पार्श्वत्क्षणं सा मद्भतेक्षणा । यत्र नाहं न सा तस्यै काचनारोचत क्रिया । अथ ताः कन्यकाः कृत्वा वधं तां राजकन्यकाम् । मां वरं चावयोर्जाने विवाहं क्रीडया व्यधुः कृतोद्वाहैौ ततश्चावां प्रविौ वासकं निशि । निःशङ्का तत्र मां सा च कण्ठे राजसुताप्रहीत् । तत्कालं च मयात्मानं प्रकाश्यालिङ्गितैव सा । सिद्धेष्टहृष्टा दृष्टा ममासील्लज्ञानता क्षणम् । प्रवर्तयामि सुरते यावचैतां हृतत्रपाम् । तावत्प्रबोधितोऽस्मीह यामिकेन दुरात्मना । तद्भद्रायुध नेदानीं चित्रे स्वप्ने च दृष्ट्या । तया मलयवत्याहं विना जीवितैमुत्सहे । इत्युक्तवन्तं राजानं सत्यस्वप्नमवेत्य सः । भद्रायुधः प्रतीहारस्तमाश्वास्यैवमुक्तवान् । कृतं चेत्स्मर्यते सम्यक्तत्तदालिख्यतां पटे । देवेन नगरं यावदुपायोऽत्र निरूप्यते । इति भद्रायुधेनोक्तः स राजा लिखति स्म तत् । पटे पुरवरं सर्वं तवृत्तान्तं च तत्क्षणम् । तं चित्रपटमादाय प्रतीहारस्तदैव सः । मठं नवं कारयित्वा तत्र भित्तावलम्बयत् । मठे चात्राकरोद्देशादागतयन्तािम्। सत्रे षड्रसमाहारं सवस्त्रयुगकाञ्चनम् ।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति