अथ संमानयामास पट्टबन्धादिना स्वयम् । निजोत्सवे वत्सराजो गोपालकपुलिन्दकौ ॥
राज्ञां संमाननर्थे च पौराणां च यथोचितम् । यौगन्धरायणस्सेन रुमण्वांश्च न्ययुज्यत ॥
ततोऽब्रवीद्रुमण्वन्तमेवं यौगन्धरायणः। राज्ञा कष्टे नियुक्तौ स्वो लोकचित्तं हि दुर्रहम् ॥
अरञ्जितश्च बालोऽपि रोषमुत्पादयेद्भुवम् । तथा च ऋण्विमां बाल विनष्टककथां सखे ॥
बभूव रुद्रशर्माख्यः कश्चन ब्राह्मणः पुरा । बभूवतुश्च तस्य वे गृहिण्यौ गृहमेधिनः ॥
एका सुतं प्रसूयैव तस्य पञ्चत्वमाययौ । तत्सुतोऽपरमातुश्च हस्ते तेनार्पितोऽथ सः ॥
सा 'च किंचिद्विवृद्धस्य रूझे तस्याशनं ददौ । सोऽपि तेनाभबलो धूसराङ्गः पृथूदरः ॥
मातृहीनस्त्वयायं मे कथं शिशुरुपेक्षितः । इति तामपरां पत्नी रुद्रशर्माथ सोऽभ्यधात् ॥
सेव्यमानोऽपि हि स्नेहैरीदृगेव किमप्यसौ। किं करोम्यहमस्येति साप्येवं पतिमब्रवीत् ॥
नूनमेवंस्वभावोऽयमिति मेने च स द्विजः । स्त्रीणामलीकमुखं हि वचः को सन्यते मृषा ॥
बाळ एव विनष्टोऽयमिति बालविनष्टकः। नाम्ना स बालकस्तत्र संवृत्तोऽभूत्पितुगृहे ॥
असावपरमाता मां कदर्थयति सर्वद। बरं प्रतिक्रियां कांचित्तदेतस्याः करोम्यहम् ॥
इति संचिन्तयामास सोऽथ बालविनष्टकः । व्यतीतपञ्चवर्षाऽपि वयसा बत बुद्धिमान् ॥
अथागतं राजकुलाब्ज़ाद पितरं रहः । तात व मम तातै स्त इत्यविस्पष्टया गिरा ॥
एवं प्रत्यहमाह स्म स बालः सोऽपि तत्पिता । तां सोपपतिमशङ्कय भार्या स्पर्धेऽध्यवर्जयत् ॥
सापि दध्यौ विना दोषं कस्मान्मे कुषितः पतिः। किंचिद्वलविनेष्टन कृतं किंचिद्भवेदिति ॥
सादरं स्नपयित्वा च दत्त्वा स्निग्धं च भोजनम् । कुत्वोत्सङ्गं च प्रपच्छ सा तं बालविनष्टकम् ॥
पुत्र किं रोषितस्तातो रुद्रशर्मा त्वया मयि । तच्छुत्वैव स तां बाछो जगदापरमातरम् ॥
अतोऽधिकं ते कर्तास्मि न चेद्यापि शाम्यसि । स्वपुत्रपोषिणी कस्मात्त्वं मां छिश्नासि सर्वदा ॥
तच्छुत्वा प्रणता सा तं बभाषे शपथोतरम् । पुनीवं करिष्यामि तत्प्रसाद्य मे पतिम् ॥
ततः स बालोऽवादीत्तां तयातस्य मत्पितुः। आदर्श दर्शयत्वेका त्वचेटी वेश्यहं परम् ॥
तथेत्युक्त्वा तया चेटी नियुक्ता रुद्रशर्मणः । आगतस्य क्षणात्तस्य दर्शयामास दर्पणम् ॥
तत्र तस्यैव तकालं प्रतिबिम्बं स दर्शयन् । सोऽयं द्वितीयस्तातो मे तातेत्याह स्म बालकः॥
तच्छुत्वा विगताशङ्कतामकारणदूषिताम् । पत्नीं प्रति प्रसन्नोऽभूद्द्रशर्मा तदैव सः ॥
एमुत्पादयेदोषं बालोऽपि विकृतिं गतः। तदयं रजनीयो नः सम्यक्परिकरोऽखिलः ॥
इत्युक्त्वा सरुमण्वत्कः सोऽथ यौगन्धरायणः । सर्वे संमानयामास वत्सराजोत्सचे जनम् ॥
तथा च राजलोकं तौ रजयामासतुर्यथा। मदेकप्रवणावेताविति सर्वोऽप्यमन्यत ॥
तौ चाप्यपूजयद्राजा सचिवौ स्वकरार्पितैः। वस्त्राङ्गरागाभरणैग़मैश्च सवसन्तकौ ॥
कृतोद्वाहोत्सवः सोऽथ युक्तो वत्सेश्वरस्तया । मनोरथफलान्येव मेने वासवदत्तया ॥
चिरादुन्मुद्रितः स्नेहात्कोऽप्यभूत्सतं तयोः। निशान्तछिष्टचक्राङ्करीतिहृद्यो रसक्रमः ॥
यथा यथा च दंपत्योः प्रौढिं परिचयो ययौ । तयोस्तथा तथा प्रेम नवीभावमिवाययौ ॥
गोपालकोऽथ वीवाहकर्तुः संदेशतः पितुः। प्रययौ शीघ्रमावृत्तं वस्सराजेन याचितः ॥
सोऽपि वत्सेश्वरो जातु चपलः पूर्वसंगताम् । गुप्तं विरचितां नाम भेजेऽन्तःपुरचारिकाम् ॥
तद्भोत्रस्खलितो देवीं पादलग्नः प्रसादयन्। लेभे सुभगसाम्राज्यमभिषिक्तस्तदश्रुभिः ॥
किं च बन्धुमतीं नाम राजपुत्रीं भुजार्जिताम् । गोपालकेन प्रहितां कन्यां देव्या उपायनम् ॥
तया मनुलिकेत्येव नाम्नान्येनैव गोपिताम् । अपरामिव लावण्यजलधेरुद्गतां श्रियम् ॥
वसन्तकसहायः सन्दृष्ट्ोद्यानलतागृहे । गान्धर्वविधिना गुप्तमुपयेमे स भूपतिः ॥
तच वासवदत्तास्य ददर्श निभृतस्थिता । प्रचुकोप च बह्वा च सा निनाय वसन्तकम् ॥
ततः प्रव्राजिकां तस्याः सखीं पितृकुळागताम् । स सांकृत्यायनीं नाम शरणं शिश्रिये नृपः॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
[ आदितस्तरङ्गः १
कथासरित्सागरः ।