एकदा ब्राह्मणो वृद्धस्तामेको भोजनागतः। ददर्श जगदाश्चर्यजननीं रूपसंपदा ॥
सकौतुकं द्विजोऽप्राक्षीदुद्दचन्द्रं रहस्तदा । का ते भवति बालेयं त्वया मे कथ्यतामिति ॥
निर्बन्धपृष्टः सोऽप्यस्मै गुहचन्द्रो द्विजन्मने । शशंस तन्तं सर्वं वृत्तान्तं खिन्नमानसः ॥
तद्युद्धं स ततस्तस्मै सानुकम्पो द्विजोत्तमः । भग्नेराराधनं सत्रं दद्वीप्सितसिद्धये ॥
तेन मंत्रेण तस्याथ जपं रहसि कुर्वतः । उदभूद्रुहचन्द्रस्य पुरुषो वह्निमध्यतः ॥
स चाग्निद्विजरूपी तं जगाद चरणानतम् । अद्याहं त्वद्महे भोक्ष्ये रात्रौ स्थास्यामि तत्र च ॥
दर्शयित्वा च तत्त्वं ते साधयिष्यामि वाञ्छितम् । इत्युक्त्वा गुहचन्द्रं स ब्राह्मणस्तद्रुहं ययौ ॥ १
तत्रान्यविप्रवदुक्त्वा गुहचन्द्रान्तिके च सः । सिषेवे शयनं रात्रौ याममात्रमतन्द्रितः ॥
तावच्च संसुप्तजनात्सा तस्मात्तस्य मन्दिरात् । निर्ययौ गुहचन्द्रस्य भार्या सोमप्रभा निशि ॥
तत्कालं ग्राह्मणः सोऽत्र गुहचन्द्रमबोधयत् । एहि स्वभार्यावृत्तान्तं पश्येत्येनमुवाच च ॥
योगेन भृङ्गरूपं च कृत्वा तस्यात्मनस्तथा। नित्यादर्शयत्तस्य भार्या तां गृहनिर्गताम् ॥
सा जगाम सुदूरं च सुन्दरी नगराद्वह्निः। णुद्दचन्द्रेण साकं च द्विजोऽप्यनुजगाम ताम् ॥
ततस्तत्र महाभोगं सच्छायस्कन्धसुन्दरम् । गुहचन्द्रो ददर्शासावेकं न्यग्रोधपदपम् ॥
तस्याधस्ताच्च शुश्राव वीणावेणुरवान्वितम् । उल्लसद्रीतमधुरं दिव्यं संगीतकध्वनिम् ॥
स्कन्धदेशे च तस्यैकां स्वभार्यासदृशाकृतिम् । अपश्यत्कन्यकां दिव्यामुपविष्टां महासने ॥
निजकान्तिजितज्योत्स्नां ।शुक्छुचामरवीजिताम् । इन्दोलवण्यसर्वस्वकोषस्येवाधिदेवताम् ॥
अत्रैवारुळ वृक्षे च तस्या अधीसने तदा । उपविष्टां स्वभाय तां गुहचन्द्रो ददर्श सः ॥
तत्कालं तुल्यकान्ती ते संगते दिव्यकन्यके । पश्यतस्तस्य भाति स्म सा त्रिचन्द्रेव यामिनी ॥
ततः स कौतुकाविष्टः क्षणमेवमचिन्तयत् । किं स्वप्नोऽयमुत भ्रान्तिधिगेतदथवा द्वयम् ॥
या सन्मार्गतरोरेषा विद्वत्संगतिमञ्जरी । असौ पुष्पोद्भतिस्तस्या ममोचितफलोन्मुखी ॥
इति चिन्तयति स्वैरं तस्मिस्ते दिव्यकन्यके । भुक्त्वा निजोचितं भोज्यं दिव्यं पपतुरासवम् ॥ १
अद्यागतो महातेजा द्विजः कोऽपि गृहेषु नः । तस्माद्भगिनि चेतो मे शङ्कितं तद्रजाम्यहम् ॥
इत्युक्त्वा तामथामद्य द्वितीयां द्विव्यकन्यकाम् । गुहचन्द्रस्य गृहिणी तरोरवरुरोह सा ॥।
तदृष्ट्वा भृङ्गरूपौ तौ गुहचन्द्रो द्विजश्व सः । प्रत्यागत्याग्रतो गेहे पूर्ववत्तस्थतुर्निशि ॥
ततैः सा दिव्यकन्यापि गुहचन्द्रस्य गेहिनी आगस्यालक्षितायैव प्रविवेश स्वमन्दिरम् ॥
ततः स ब्राह्मणः स्वैरं गुहचन्द्रमभाषत । दृष्टं त्वया यदेषा ते भार्या दिव्या न मानुषी ॥
द्वितीया सापि चैतस्या दृष्टाद्य भगिनी त्वया । दिव्या स्त्री तु मनुष्येण कथमिच्छति संगमम् ॥ १
तदेतत्सिद्धये मन्त्रं द्वारोल्लेख्यं दमामि ते । तस्योपबृहणीं बायां युक्तिं चोपदिशास्म्यहम् ॥
विशुद्धोऽपि ज्वलयनिर्वात्यायोगे तु का कथा । एवं मत्रोऽर्थदोऽप्येकः किं पुनर्मुक्तिसंयुतः ॥
इत्युक्त्वा गुहचन्द्राय दत्त्वा मन्त्रं द्विजोत्तमः । उपदिश्य च तां युक्तिं प्रभाते स तिरोदधे ॥ १
गुहचन्द्रोऽपि भार्याया गृहद्वारेऽभिलिख्य तम् । मन्त्रं पुनश्चकारैवं सायं युक्तिं प्ररोचनीम् ॥
गत्वा स तस्याः पश्यन्त्या कयापि वरयोषिता । सह चक्रे समालापं रचितोदारमण्डनः ॥
तहृष्टैव तमाहूय मन्त्रोन्मुद्रितया गिरा । एषा कास्तीति पप्रच्छ सा सेयं दिव्यकन्यका ॥
असौ वराङ्गन बद्धभावा मय्यहमद्य च । एतदहं व्रजामीति प्रत्यवोचत्स तां मृषा ॥
ततः साचीकृतदृशा मुखेन वलितक्षुणा । दृष्ट्वा निवार्य वामेन करेण तमुवाच सा ॥
हुं ज्ञातमेतदर्थोऽयं वेषस्तत्र च मा स्म गाः किं तया मामुपेहि त्वमहं हि तव गेहिनी ॥
इत्युक्तः पुलकोत्कम्पसंक्षोभाञ्छया तया । आविष्टयेव तन्मत्रदूतदुप्रैहयापि सः ॥
प्रविश्य वासके सद्यस्तयैव सममन्वभूत् । मर्योऽपि दिव्यसंभोगमसंस्पृष्टं मनोरथैः ॥
इथं तां प्राप्य सप्रेमां मत्रसिद्धिप्रसाधिताम् । त्यक्तदिव्यस्थितिं तस्थौ गुहचन्द्रो यथासुखम् ॥ १
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
[ आदितस्तरङ्गः १७
कथासरित्सागरः ।