पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
आदितस्तरङ्ग
कथासरित्सागरः

आदित्यस्येव यस्येह न चस्खाळ किल क्कचित् । प्रतापनिलयस्यैकचक्रवर्तितया रथः ॥

भासयत्युच्छूिते व्योम यच्छत्रे तुहिनत्विषि । न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम् ॥

समस्तभूतयाभोगसंभवानां बभूव सः । भाजनं सर्वरत्नानामम्बुराशिरिवाम्भसाम् ॥

स कदाचन कस्यापि हेतोर्यांत्रागतो नृपः । ससैन्यो जाह्नवीकूलमासाद्यावस्थितोऽभवत् ॥

तत्र तं गुणवर्माख्यः कोऽप्याढ्यस्तत्प्रदेशजः । अभ्यगानुपमादाय कन्यारत्नमुपायनम् ॥

रत्नं त्रिभुवनेऽप्येषा कन्योत्पन्ना गृहे मम । नान्यत्र दातुं शक्या च देवो हि प्रभुरीदृशः ॥

इत्यावेद्य प्रतीहारमुखेनाथ प्रविश्य सः । गुणवर्मा निजां तस्मै राज्ञे कन्यामदर्शयत् ॥

स तां तेजस्वतीं नाम दीप्तिद्योतितदिङ्मुखम् । अनङ्गमङ्गळावासरत्नदीपशिखामिव ॥

श्यन्नेहमयो राजा लिष्टतत्कान्तितेजसा । कामाग्निनेव संतप्तः स्विन्नो विगलति स्म सः ॥

स्वीकृत्यैतां च तत्कालं महादेवीपदोचिताम् । चकार गुणवर्माणं परितुष्यात्मनः समम् ॥

ततस्तां परिणीयैब प्रियां तेजस्खतीं नृपः । कृतार्थमानी स तया साकमुज्जयिनीं ययौ ॥

तन्मुखसक्तैकदृष्टी राजा ह्यभूत्तथा । ददर्श राजकार्याणि न यथा सुमहान्यपि ॥

तेजस्वतीकलालापकीलितेव किल श्रुतिः। नावसन्नप्रजाक्रन्दैस्तस्याक्रथुमशक्यत ॥

चिरप्रविष्टो निरगान्नैव सोऽन्तःपुरानृपः । निरगादरिवर्गस्य हृदयालु रुजाज्वरः ॥

कालेन तस्य जज्ञे च राज्ञः सर्वाभिनन्दिता । कन्या तेजस्वती देव्यां बुद्धौ च विजिगीषुता ॥

परमादतरूपा सा तृणीकृत्य जगत्रयम् । हर्षे तस्याकरोत्कन्या प्रतापं च जिगीषुता ॥

अथाभियोक्तुमुत्सिक्तं सामन्तं कंचिदेकदा । आदित्यसेनः प्रयया उज्जयिन्याः स भूपतिः॥

तां च तेजस्वतीं राक्षीं समारूढकरेणुकाम् । सहप्रयायिनीं चक्रे सैन्यस्येवाधिदेवताम् ॥

आरुरोह वराधं च पद्यद्धर्मनिझीरम् । जङ्गमाद्रिनिभं तुङ्गं स श्रीबृक्ष समेखलम् ॥

आफुक्कोत्थितपादाभ्यामभ्यस्यन्तमिवाम्बरे । गतिं गरुत्मतो दृष्टां वेगसब्रह्मचारिणः ॥

जवस्य मम पर्याप्ता किं नु स्यादिति मेदिनीम् । कलयन्तमिवोन्नम्य कंधरां धीरया दृशा ॥

किंचिद्रत्वा च संप्राप्य समां भूमिं स भूपतिः । अश्वमुत्तेजयामास तेजस्वत्याः प्रदर्शयन् ॥

सोऽश्वस्तपाणिघातेन यत्रेणेवेरितः शरः । जगाम काप्यतिजवादलक्ष्यो लोकलोचनैः ॥

तहृष्टा विह्वले सैन्ये हयारोहाः सहस्रधा । अन्वधावन्न च प्रापुस्तमश्वपहृतं नृपम् ॥

ततश्चानिष्टमाशङ्कय ससैन्या मन्त्रिणो भयात् । आदाय देवीं क्रन्दन्तीं निवृत्त्योजयिनीं ययुः ॥

तत्र ते पिहितद्वारकृतप्राकारगुप्तयः। राज्ञः प्रवृत्तिं चिन्वन्तस्तस्थुराश्वासितप्रजाः ॥

अत्रान्तरे स राजापि नीतोऽभूत्तेन वाजिना । सरौद्रसिंहसंचारां दुर्गा विन्ध्याटवीं क्षणात् ॥

तत्र दैवात्थिते तस्मिन्नर्थे स सहसा नृपः । आसीन्महाटवीदत्तदिखाऊोहो विह्वलाकुलः ॥

गतिमन्यामपश्यंश्च सोऽवतीर्य प्रणम्य च । तं जगादाश्वजातिज्ञो राजा वरतुरंगमम॥

देवस्त्वं न प्रभुद्रोहं त्वादृशः कर्तुमर्हति । तन्मे त्वमेव शरणं शिवेन नय मां पथा । ॥

तच्छुत्वा सानुतापः सन्सोऽश्वो जातिस्मरस्तदा । तत्तथेत्यग्रहीदुवैौ दैवतं हि हयोत्तमः ॥

ततो राज्ञि समारूढे स प्रतस्थे तुरंगमः । स्वच्छशीताम्बुसरसा माणाध्यक्छमच्छिद ॥

सायं च प्रापयामास स योजनशतान्तरम् । उज्जयिन्याः समीपं तं राजानं वाजिसत्तमः ॥

तद्वेगविजितान्वीक्ष्य सप्तापि निजवाजिनः। अस्ताद्रिकंदालीने लजयेघांशुमालिनि ॥

तमसि प्रसृते द्वाराण्युज्जयिन्या विलोक्य सः। पिहितानि श्मशानं च बहिस्तकालभीषणम् ॥

निनायैनं निवासाय भूपतिं बुद्धिमान्ह्यः । बालैकान्तस्थितं तत्र गुप्तं विप्रमतुं निशि ॥

निशातिवाहयोग्यं च तं स दृष्ट्वा मठं नृपः। आदित्यसेनः प्रारेभे प्रवेष्टुं आन्तवाहनः ॥

रुरुधुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः । श्मशानपालश्चौरो वा कोऽप्यसाविति वादिनः ॥



१ पर्वतपक्षे श्रीघुशो बिल्वंकुशः, ‘' () अश्वपक्षे तु श्रीवृक्षो रोमावर्तविशेषःइति शिशुपालवधटीकायां ५५६महिना