सा तां प्रसाद्य महिषीं तया सैव कृताज्ञया । ददौ बन्धुमतीं राज्ञे पेशठं हि सतीमनः ॥ ७२
ततस्तं बन्धनाद्देवी सा मुमोच वसन्तकम् । स चागत्याग्रतो राज्ञीं हसन्निति जगाद ताम् ॥ ७३
बन्धुमत्यापराद्धे च किं मया देवि ते कृतम् । डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहीन्प्रति ॥ ७४
एतत्स्वमुपमानं मे व्याचक्ष्वेति कुतूहलात् । देव्या पुष्टतया सोऽथ पुनराह वसन्तकः ॥ ७५
पुरा कोऽपि रुरुर्नाम मुनिपुत्रो यदृच्छया। परिभ्रमन्ददशैकां कन्यामद्भुतदर्शनाम् ॥ ७६
विद्याधरात्समुत्पन्नां मेनकायां युयोषिति । स्थूलकेशेन मुनिना वधतामाश्रमे निजे ॥ ७७
सा च प्रमख़ुरानाम दृष्टा तस्य रुरोर्मनः। जहर सोऽथ गत्वा तां स्थूलकेशाद्याचत ॥ ७८
स्थूळकेशोऽपि तां तस्मै प्रतिशुश्राव कन्यकाम् । आसन्ने च विवाहे तामकस्माद्दष्टवानहिः ॥ ७९
ततो विषण्णहृद्यः शुश्रावेमां गिरं दिवि । एतां क्षीणायुषं ब्रह्मन्स्वायुषोऽर्धेन जीवय ॥ ८०
तच्छुत्वा स ददौ तस्यै तदैवाधी निजायुषः । प्रत्युजिजीव सा तेन सोऽपि तां परिणीतवान् ॥ ८१
अथ क्रुद्धो रुरुर्नित्यं यं यं सर्प ददर्श सः । तं तं जघान भार्या मे ददामीभिर्भवेदिति ॥ ८२
अथैकतं जिघांसन्तं मयैवाचह डुण्डुभः। आहिभ्यः कुपितो ब्रह्मन्हंसि त्वं डुण्डुभान्कथम् ॥ ८३
अहिना ते प्रिया दष्टा विभिन्नौ चाहिडुण्डुभौ । अहयः सविषाः सर्वे निर्विषा डुण्डुभा इति ॥ ८४
तच्छुत्वा प्रत्यवादीत्तं सखे को चु, भवानिति । डुण्डुभोऽप्यवदद्रह्मन्नहं शापच्युतो मुनिः ॥ ८५
भवसंवादपर्यन्तः शापोऽयमभवच्च मे । इत्युक्त्वान्तर्हिते तस्मिन्भूयस्तान्नावधीद्रुः ॥ ८६
तदेतदुपमानाय तव देवि मयोदितम्। डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहिष्विति ॥ ८७
एवमभिधाय वचनं सनर्महासं वसन्तके विरते ।
वासवदत्ता तं प्रति तुतोष पान्डै स्थिता पत्युः ॥ ८८
इति मधुमधुराणि वत्सराजश्चरणगतः कुपितानुनाथनानि ।
सततमुदयनश्चकार देव्या विविधवसन्तककौशलानि कामी ॥ ८९
रसना मदिरारसैकसक्ता कलवीणारवरागिणी श्रुतिश्च ।
दयितामुखनिश्चला च दृष्टिः सुखिनस्तस्य स बभूव राज्ञः ॥ ९०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्घके षष्ठस्तरः।
समाप्तश्चायं कथासुखलम्बको द्वितीयः ।