स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम् । तस्यारुरोह स स्कन्धे भद्रामारोप्य तां पुरः॥ ३८०
सापि सेहे तदत्युग्रराक्षसांसाधिरोहणम् । अनुरागपरायत्ताः कुर्वते किं न योषितः ॥ ३८१
रक्षोधिरूढश्च ततः स प्रतस्थे प्रियासखः । विदूषकः पुनः प्राप तच्च कार्कोटकं पुरम् ॥ ३८२
रक्षोदर्शनसत्रासं तत्र चालोकितो जनैः। दृष्ट्वर्यवर्मनृपतिं स्वां भार्या माणंति स्म सः ॥ ३८३
दत्तां तेन गृहीत्वा च तत्सुतां तां भुजाजताम् । तथैव राक्षसारूढः स प्रतस्थे पुराततः॥ ३८४
गवाम्बुधेस्तटे प्राप पापं तं वणिजं च सः । येनास्य वारिधौ पूर्वं छिन्नः क्षिप्तस्य रज्जवः ॥३८५
जहार तस्य च सुतां वणिजः स धनैः सह । प्रागस्बुधौ प्रवहणप्रमोचनपणार्जिताम् ॥ ३८६
धनापहारमेवास्य वधं मेने च पाप्मनः । कद्र्याणां परे प्राणाः प्रायेण ह्यर्थसंचयाः ॥ ३८७
ततो रक्षोरथारूढस्तामानीय वणिक्सुताम् । स भद्राराजपुत्रीभ्यां सहैवोदपतन्नभः ॥ ३८८
दर्शयन्निजकान्तानां द्युमार्गेण ततार च । विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ॥ ३८९
प्राप तच्च स भूयोऽपि नगरं पौण्ड्रवर्धनम् । दृष्टः सविस्मयं सर्वैर्वाहनीकृतराक्षसः ॥ ३९०
तत्र तां देवसेनस्य सुतां राज्ञशिरोत्सुकाम् । भार्या संभावयामास राक्षसावजयाजिताम् ॥ ३९१
रुध्यमानोऽपि तस्पित्रा स स्वदेशसमुत्सुकः । गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ॥ ३९२
अचिरेण च तां प्राप पुरीं राक्षसयोगतः । बहिर्गतामिवास्मीयदेशदर्शनतिधृतिम्॥ ३९३
अथोपरि स्थितस्तस्य महकायस्य रक्षसः । अंसस्थतद्वधूचक्रकान्तिप्रकटितात्मनः॥ ३९४
स जनैर्ददृशे तत्र शिखरे ज्वलितौषधौ । शशाङ्क इव पूर्वार्द्ररुदयस्थो विदूषकः ॥ ३९५
ततो विस्मितवित्रस्ते जने जुह्वत्र भूपतिः । आदित्यसेनो निरगच्छुचुरोऽस्य तदा पुरः॥ ३९६
विदूषकस्तु दृष्ट्वा तमवतीर्याशु राक्षसtत् । प्रणम्य नृपसभ्यागानृपोऽप्यभिननन्द तम् ॥ ३९७
अवतायैव तत्स्कन्धाताः स्वभार्यास्ततोऽखिलाः। मुमोच कामचाराय राक्षसं स विदूषकः ॥ ३९८
गते च राक्षसे तस्मिन्स तेन सह भूभुजा । श्वशुरेण सभायैः सन्प्राविशद्राजमन्दिरम् ॥ ३९९
तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः । आनन्दयदुपागत्य चिरोकण्ठावशीकृताम् ॥ ४००
कथमेतास्त्वया भार्याः प्राप्ताः कश्चैष राक्षसः । इति पृष्टः स राज्ञत्र सर्वमस्मै शशंस तत् ॥ ४०१
ततः प्रभावतुष्टेन तेन तस्य महीभृता । जामातुर्निजराज्यार्थं प्रदत्तं कार्यवेदिना ॥ ४०२
तरक्षणाच्च स राजाभूद्विप्रो भूत्वा विदूषकः । समुच्छूितसितच्छत्रो विधूतोभयचामरः ॥ ४०३
तदा च मङ्गलातोद्यवाद्यनिहनिर्भरा। प्रहर्षमुक्तनादेव रराजोज्जयिनी पुरी ॥ ४०४
इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्गिः ।
ताभिः समं विगतमत्सरनिर्मुताभिर्भद्रसखाश्चिरमरंस्त निजप्रियाभिः ॥ ४०५
इत्यनुकूले दैवे भजति निजं सत्वमेव धीराणाम् ।
लक्ष्मीरभसाकर्षणसिद्धमहमोहमब्रवम् ॥ ४०६
इत्थं श्रुत्वा वत्सराजस्य वक्त्राच्चित्रामेतामद्भुतार्थं कथां ते ।
पाश्र्वासीना मत्रिणश्चास्य सर्वे देव्यौ चापि प्रीतिमप्रयामवापुः ॥ ४०७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बक चतुर्थस्तरङ्गः।
*****
पञ्चसस्तरङ्ग
ततो वत्सेश्वरं प्राह तत्र यौगन्धरायणः । राजन्दैवानुकूल्यं च विद्यते पौरुषं च ते ॥ १
नीतिमार्गे च वयमप्यत्र किंचित्कृतश्रमाः । तद्यथाचिन्तितं शीघं कुरुष्व विजयं दिशाम् ॥ २
इत्युक्ते मन्त्रिमुख्येन राजा वत्सेश्वरोऽब्रवीत् । अस्त्वेतद्वहुविनास्तु सदा कल्याणसिद्धयः ॥ ३
अतस्तथं तपसा शंभुमाराधयाम्यहम् । विना हि तस्प्रसादेन कुतो वाञ्छितसिद्धयः ॥ ४
तच्छुत्वा च तपस्तस्य मन्त्रिणोऽप्यनुमेनिरे । सेतुबन्धोद्यतस्याब्धौ रामस्येव कपीश्वराः ॥ ५