॥ श्रीः ॥
महाकविश्रीसोमदेवभट्टविरचितः
कथासरित्सागरः ।
*****
नरवाहनदत्तजननं नाम चतुर्थो लम्बकः ।
इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना
पुरा किल कथामृतं हरमुखाम्बुधेरुद्तमं ।
प्रसह्य रसयन्ति ये विगतविग्नलब्धर्डयो
धुरं दधति वैखुधीं भुवि भवप्रसादेन ते ॥
*****
प्रथमस्तरङ्गः
कर्णतालबलाघातसीमन्तितकुलाचलः। पन्थानमिव सिद्धीनां दिशङ्कयति विन्नजित् ११ १
ततो वत्सेश्वरो राजा स कौशाम्ब्यामवस्थितः । एकतपत्रां बुभुजे जितामुदयनो महीम् ॥ २
विधाय सरुमण्वत्के भारं यौगन्धरायणे । विहरैकरसश्वभूद्वसन्तकसखः सुखी ॥ ३
स्वयं स वादयन्वीणां देव्या वासवदत्तया । पद्मावत्या च सहितः संगीतकमॅसेवत ॥ ४
देवीकाकलिगीतस्य तद्वीणानिनस्य च । अभेदे वादनाक्रुष्टकम्पोऽभूद्रसुचकः ॥ ५
इस्र्याग्रे निजकीयैव ज्योत्स्नया धवले च सः । धाराविगलितं सीधु पपौ मदमिव द्विषाम् ॥ ६
आजहुः स्वर्णकलशैस्तस्य वाराङ्गना रहः। स्मरराज्याभिषेकाम्भ इव रागोज्वलं मधु ॥ ७
आरक्तसुरसस्वच्छसन्तःस्फुरिततन्मुखम् । उपनिन्ये द्वयोर्मध्ये स स्वचित्तमिवासवम् ॥ ८
ईष्यरुषामभावेऽपि भङ्गुरभृणि रागिणि । न मुखे तत्तयो राश्योस्तदृष्टिस्तृप्तिमाययौ ॥ ९
समधुस्फटिकानेकचषका तस्य पानभूः । बभौ बालातपारक्तसितपद्येव पद्मिनी ॥ १०
अन्तरा च मिळव्याधः पलाशश्यामकञ्चुकः । स सबाणासनो भेजे खोपमं मृगकाननम् ॥ ११
जघान पङ्ककलुषान्वराहनिवहञ्शरैः। तिमिरौघानविरलैः करैरिव मरीचिमान् ॥ १२
वित्रस्तप्रसृतास्तस्मिन्कृष्णसाराः प्रधाविते । बभुः पूर्वाभिभूतानां कटाक्षाः ककुभामिव ॥ १३
रेजे रक्तारुणा चास्य मही महिषघातिनः। सेवागतेव तच्छुङ्गपातमुक्ता वनाब्जिनी ॥ १४
व्यात्तबकपतत्प्रासप्रोतेष्वपि मृगारिषु । सान्तर्गर्जितनिष्क्रान्तजीवितेषु तुतोष सः ॥ १५
श्वनः श्वथै वने तस्मिंस्तस्य वर्मसु वागुराः । सा स्वायुधैकसिद्धेऽभूत्प्रक्रिया मृगयारसे ॥ १६
एवं सुखोपभोगेषु वर्तमानं तमेकदा । राजानमास्थानगतं नारदो मुनिरभ्यगात् ॥ १७
निजदेहप्रभाबद्धमण्डलो मण्डनं दिवः। कृतावतारस्तेजस्विजातिप्रीत्यांशुमानिव ॥ १८
स तेन रचितातिथ्यो मुहुः प्रहेण भूभृता । प्रीतः क्षणमिव स्थित्वा राजानं तमभाषत ॥ १९
शृणु संक्षिप्तमेतत्ते वत्सेश्वर वदाम्यहम्। बभूव पाण्डुरिति ते राजा पूर्वपितामहः ॥ २०
तवेव तस्य द्वे एव भव्ये भार्ये बभूवतुः। एका कुन्ती द्वितीया च माद्री नाम महौजसः ॥ २१
स पाण्डुः पृथिवीमेतां जित्वा जलधिमेखलाम् । सुखी कदाचित्प्रययौ मृगयाव्यसनी वनम् ॥ २२
तत्र किन्दमनामानं स मुनिं मुक्तसायकः। जघान मृगरूपेण सभार्यं सुरतस्थितम् ॥ २३
स मुनिभृगरूपं तत्त्यक्त्वा कण्ठविवर्तभिः । प्राणैः शशाप तं पाण्डं विषण्णं मुक्तकार्मुकम् ॥ २४
स्वैरस्थो निर्विमर्षेण हतोऽहं यत्त्वया ततः । भार्यासंभोगकाले ते मद्वन्मृत्युर्भविष्यति ॥ २५