पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'तरङगः२।]
कथापीठलम्बकः १

काणभूतेः कथां तां तु यदा श्रोष्यति माल्यवान् । काणभूतौ तदा मुक्ते कथां प्रख्याप्य मोक्ष्यते ॥ ६१

इत्युक्त्वा शैलतनया व्यरमत्तौ च तत्क्षणात् । विद्युयुजाविव गणौ दृष्टनष्टौ बभूवतुः ॥ ६२

अथ जातु याति काले गौरी पप्रच्छ शंकरं सदा ।
देव मया तौ शप्तौ प्रमथवरौ कुत्र भुवि जातौ ॥ ६३
अवदच्च चन्द्रमौलिः कौशाम्बीयति या महानगरी ।
तस्यां स पुष्पदन्तो वररुचिनामा प्रिये जातः ॥ ६४
अन्यच्च माल्यवानपि नगरवरे सुप्रतिष्ठिताख्ये सः।
जातो गुणाढ्यनामा देवि तयोरेष वृत्तान्तः ॥ ६५
एवं निवेद्य स विभुः सततानुवृत्तभृत्यावसाननविभावनसानुतापाम् ।
कैलासशैलतटकल्पितकल्पवल्लीलीलागृहेषु दयितां रमयमुवास ॥ ६६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके प्रथमस्तरङ्गः ।

*****


द्वितीयस्तरङ्गः।


ततः स मर्यवपुषा पुष्पदन्तः परिभ्रमन् । नाम्ना वररुचिः किं च कात्यायन इति श्रुतः ॥ १
पारं संप्राप्य विद्यानां कृत्वा नन्दस्य मञ्जिताम् । खिन्नः समाययौ द्रष्टुं कदाचिद्विन्ध्यवासिनीम् ॥ २
तपसाराधिता देवी स्वप्नादेशेन सा च तम् । प्राहिणोद्विन्ध्यकान्तारं कणभूतिमवेक्षितुम् ॥ ३
व्याघवानरसंकीर्ण निस्तोयपरुषद्रुमे । भ्रमंस्तत्र च स प्रांगें न्यग्रोधतरुमैक्षत ॥ ४
ददर्श च समीपेऽस्य पिशाचानां शतैर्युतम् । काणभूतिं पिशचं तं वर्मणा सालसंनिभम् ॥ ५
स काणभूतिना दृष्ट्वा कृतपादोपसंग्रहः। कात्यायनो जगादैनमुपविष्टः क्षणान्तरे ॥ ६
सदाचारो भवानेवं कथमेतां गतिं गतः । तच्छुत्वा कृतसौहार्द काणभूतिस्तमब्रवीत् ॥ ७
स्खतो मे नास्ति विज्ञानं किं तु शर्वान्मया श्रुतम् । उज्जयिन्यां इमशाने यच्छुणु तत्कथयामि ते ॥ ८
कपालेषु श्मशानेषु कस्माद्देव रतिस्तव । इति पृष्टस्ततो देव्या भगवानिदमब्रवीत् ॥ ९
पुरा कल्पक्षये वृत्ते जातं जलमयं जगत् । मया ततो विभिद्यो रक्तबिन्दुनिपातितः ॥ १०
जलान्तस्तदभूदण्डं तस्माद्वैधकृतात्पुमान् । निरगच्छत्ततः सृष्टा सर्गाय प्रकृतिर्मया । ११
तौ च प्रजापतीनन्यान्सृष्टवन्तौ प्रजाश्च ते । अतः पितामहः प्रोक्तः स पुमाजगति प्रिये ॥ १२
एवं चराचरं दृष्ट्वा विधं दर्पमगादसौं । पुरुषस्तेन मूर्धानमथैतस्याहमच्छिदम् ॥ १३
ततोऽनुतापेन मया महाव्रतमगृह्यत । अतः कपालपाणित्वं श्मशानप्रियता च मे ॥ १४
किं चैतन्मे कपालात्मजगदेवि करे स्थितम् । पूर्वोक्तण्डकपाले द्वे रोदसी कीर्तिते यतः ॥ १५
इत्युक्ते शंभुना तत्र श्रोष्यामीति सकौतुके । स्थिते मयि ततो भूयः पार्वती पतिमभ्यधात् ॥ १६
स पुष्पदन्तः क्रियतां कालेनास्मानुपैष्यति । तांकण्यश्रीदेवीं मामुद्दिश्य सहेश्वरः ॥ १७
पिशाचो दृश्यते योऽयमेष वैश्रवणानुगः । यक्ष मित्रमभूचास्य रक्षः स्थूलशिरा इति ॥ १८
संगतं तेन पापेन निरीक्ष्यैनं धनाधिपः । विन्ध्याटव्यां पिशाचत्वमादिशद्धनदेश्वरः ॥ १९
भ्रात्रास्य दीर्घजन पतित्वा पादयोस्ततः । शापान्तं प्रति विज्ञप्तो वदति स्म धनाधिपः ॥ २०
शापावतीर्णादाकण्र्य पुष्पदन्तान्मह्कथाम् । उक्त्वा माल्यवते तां च शापाप्राप्ताय मयैताम् ॥ २१
ताभ्यां गणाभ्यां सहितः शापसेनं तरिष्यति । इतीह धनदेनस्य शापान्तो विहितस्तदा ॥ २२
त्वया च पुष्पदन्तस्य स एवेति स्मर प्रिये । एतच्छुत्वा वचः शंभोः सहर्षोऽहमिहागतः ॥ २३
इत्थं मे शापदोषोऽयं पुष्पदन्तागमावधिः । इत्युक्त्वा विरते तस्मिन्काणभूतौ च तत्क्षणम् ॥ २४
स्मृत्वा वररुचिर्जातिं सुप्तोस्थित इवाभवत् । स एव पुष्पदन्तोऽहं मत्तस्सां च कथां श्रुणु ॥ २५
इत्युक्त्वा ग्रन्थलक्षाणि सप्त सप्त महाकथाः । कात्यायनेन कथिताः काणभूतिस्ततोऽब्रवीत् ॥ २६