पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


चतुर्दारिका नाम पञ्चमो लम्बकः।


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।


प्रसह्य रसयन्ति ये विगतविप्नलब्धज़्यो


धुरं दधति वैद्युधीं भुवि भवमसादेन ते ॥


*****


प्रथमस्तरङ्गः ।



मदघूर्णितवक्रोत्थैः सिन्दूरैश्छुरयन्महीम् । हेरेम्बः पातु वो विन्नान्स्वतेजोभिर्दहन्निव ॥ १

एवं स देवीसहितस्तस्थौ वत्सेश्वरस्तदा । नरवाहनदत्तं तमेकपुत्रं विवर्धयन् ॥ २

तद्रक्षाकातरं तं च दृष्ट्वा राजानमेकदा। यौगन्धरायणो मन्त्री विजनस्थितमब्रवीत् ॥ ३

राजन्न राजपुत्रस्य कृते चिन्ताधुना त्वया । नरवाहनदत्तस्य विधातव्या कदाचन ॥ ४

असौ भगवता भावी भर्गेण हि भवद्रुहे । सर्वविद्याधराधीशचक्रवर्ती विनिर्मितः ॥ ५

विद्यप्रभावादेतच बुद्धा विद्याधराधिपाः। गताः पापेच्छवः क्षोभं हृदयैरसहिष्णवः ॥ ६

तद्विदित्वा च देवेन रक्षार्थं शशिमौलिना । एतस्य स्तम्भको नाम गणेशः स्थापितो निजः ॥ ७

स च तिष्ठत्यलक्ष्यः सन्रक्षनेतं सुतं तव। एतच्च क्षिप्रमभ्येत्य नारदो मे न्यवेदयत् ॥ ८

इति तस्मिन्वत्येव मन्त्रिणि व्योममध्यतः। किरीटी कुण्डलं दिव्यः खङ्गी चावातत्पुमान् ॥ ९

प्रणतं कल्पितातिथ्यं क्षणाद्वत्सेश्वरोऽथ तम् । कस्त्वं किमिह ते कार्यमित्यपृच्छत्सकौतुकम् ॥ १०

सोऽप्यवादीदहं मत्थं भूत्वा विद्याधराधिपः। संपन्नः शक्तिवेगाख्यः प्रभूताश्च ममारयः॥ ११

सोऽहं प्रभावाद्विज्ञाय भाय्यस्मचक्रवर्तिनम् । भवत स्तनयं द्रष्टुमागतोऽस्म्यवनीपते ॥ १२

इत्युक्तवन्तं तं दृष्टभविष्यचक्रवर्तिनम्। पीतं वत्सेश्वरो हृष्टः पुनः पप्रच्छ विस्मयात् ॥ १३

विद्याधरत्वं प्राप्येत कथं कीदृग्विधं च तत् । त्वया च तत्कथं प्राप्तमेतत्कथय नः सखे ॥ १४

तच्छुत्वा वचनं राज्ञः स तदा विनयानतः। विद्याधरः शक्तिवेगस्तमेवं प्रत्यवोचत ॥ १५

राजन्निहैव पूर्वे वा जन्मन्याराध्य शंकरम् । विद्याधरपदं धीरा लभन्ते तदनुग्रहात् ॥ १६

तच्चानेकविधं विद्याखङ्गमालादिसाधनम् । मया च तद्यथाप्राप्तं कथयामि तथा मृणु ॥ १७

एवमुकवू स्वसंबद्धां शक्तिवेगः स संनिधौ । देव्या वासवदत्ताया कथामाख्यातवानिमाम् ॥ १८

अभवद्वर्धमानाख्ये पुरे भूतलभूषणे । नाम्ना परोपकारीति पुरा राजा परंतपः ॥ १९

तस्योन्नतिमतश्वभून्महिषी कनकप्रभा । विद्युद्धरधरस्येव सा तु निर्मुक्तचापला ॥ २०

तस्यां तस्य च कालेन देव्यामजनि कन्यका। रूपदर्पोपशान्त्यै या लक्ष्म्या धात्रेव निर्मिता ॥ २१

अवर्धत शनैः च लोकलोचनचन्द्रिका । पित्रा कनकेरेखेति मातृनाम्ना कृतात्मजा ॥ २२

सा
एकद यौवनस्थायां तस्यां राज स तत्पिता । विजनोपस्थितां देवीं जगाद कनकप्रभाम् ॥ २३

वर्धमाना सहैवैतत्समानोद्वाहचिन्तया । एषा कनकरेखा मे हृदयं देवि बाधते ॥ २४

स्थानप्राप्तिविहीना हि गीतिवकुलकन्यका। उद्वेजिनी परस्यापि श्रूयमाणैव कर्णयोः ॥ २५