न जाu५२मान चाहन्द्रः परवारस्य शुश्रुवे ।
राजा कनकवर्षाऽथ तच्छुत्वा जातवासकम् । एत्य पुत्रश्रियाशून्यं दृष्ट्वा मोहं जगाम सः ॥
समाश्वस्य च हा देवि हा पुत्रक शिशो इति । विलपन्नथ सस्मार शापं तं वत्सरावधिम् ॥
भगवञ्शापसंपृक्तो मन्दपुण्यस्य मे बरः । कथं स्कन्द त्वया दत्तः सविषामृतसंनिभः ॥
हद्द युगसहस्राभं कथं नेष्यामि वत्सरम् । देव्या मदनसुन्दर्या जीविताधिकया विना ॥
इत्याक्रन्दंश्च स ज्ञातवृत्तान्तैर्मत्रिभिर्नुपः । बोध्यमानोऽपि न प्राप देव्या सह गतां धृतिम् ॥
क्रमाच्च मदनावेगविवशो निर्गतः पुरात् । विवेश विन्ध्यकान्तारमुन्मनीभूय स भ्रमन् ॥
तत्र बालमृगीने त्रैः प्रियया लोचनश्रियम् । कबरीभारसौन्दर्यं चमरीवालसंचयैः ॥
इटैः करिकरेणूनां गतैर्मन्थरांत गतेः । स्मरतस्तस्य जज्वाल सुतरां मदनानलः ॥
भ्राम्यंस्तृष्णातपक्लान्तो विन्ध्यपादमवाप्य सः । पीतनिझीरपानीयस्तरुमूळ उपाविशत् ॥
तावद्द्वमुखाद्विन्ध्यस्याट्टहास इवोन्नदन् । सिंहः सटालो निर्गत्य हन्तुमभ्युत्पपात तम् ॥
तत्क्षणं गगनायातः कोऽपि विद्याधरो जवात् । निपत्यासिप्रहारेण सिंहं तमकरोद्विधा ॥
समीपमेत्य चाट्टच्छद्राजानं ते स खेचरः। राजन्कनकवर्षेवं प्रप्तोऽस्येतां कथं भुवम् ॥
तच्छुत्वा संस्मृतिं लब्धा स राजा प्रत्युवाच तम् । विरहानलविक्षिप्तं कुतस्त्वं वेत्सि मामिति ॥
तृत विद्याधरोऽवादीदहं प्रव्राजको भवन् । मानुषो बन्धुमित्राख्यस्त्वपुरे न्यवसं पुरा ॥
सेवया प्रार्थितेनात्र त्वया साहायके कृते । विद्याधरस्वं प्राप्तोऽस्मि वीर वेतालसाधनात् ॥
तेन त्वां प्रत्यभिज्ञाय कर्तुं ते प्रत्युपक्रियाम् । त्वज्जिघांसुर्यं दृष्ट्वा सिंहो व्यापादितो मया ॥
नाम्ना बन्धुप्रभश्चाद्य संवृत्तोऽस्मीति वादिनम् । राजा कनकवर्षस्तं जातप्रीतिरभषत ॥
हन्त स्मरामि सा चेह मैत्री निर्वाहिता त्वया । तद्वहि मे कदा भावी भायीपुत्रसमागमः ॥
इति तस्य वचः श्रुत्वा युद्धे विद्यप्रभावतः । विद्याधरोऽब्रवीद्वन्धुप्रभस्तं स महीभृतम् ॥
दृष्टया विन्ध्यवासिन्या पत्नीपुत्रौ त्वमाप्स्यसि । तत्तत्र गच्छ सिद्ध्यै त्वं स्वलोकं च व्रजाम्यह ॥
इत्युक्त्वा खं गते तस्मिन्राजा लब्धधृतिः शनैः । प्रायात्कनकवषऽसौ द्रष्टुं तां विन्ध्यवासिनी ॥
गच्छन्तमभ्यधावत्तं नृपं वन्यो महान्पथि । आrधूतमस्तको मत्तः प्रसारितकरः करी ॥
तं दृष्ट्वा श्वभ्रमार्गेण स राजापासरत्तथा । यथानुधावन्स गजो विपेदे श्वभ्रपाततः ॥
ततः सोऽध्वश्रमयासक्लान्तो राजा प्रजन्क्रमात् । उद्दण्डपुण्डरीकाद्वयं प्रापदेकं महत्सरः ॥
तत्र स्नात्वा च पीत्वा च जलं जग्धमृणालकः । विश्रान्तः पपतले क्षणे जते स निद्रया ॥
तावच्च तेन मृगयानिवृत्तः शबराः पथा । आगता ददृशुः सुप्तं तं राजानं सुलक्षणम् ॥
ते च देव्युपहारार्थं बटु निन्युस्तदैव तम् । स्वस्य मुक्ताफलाख्यस्य पार्श्व शबरभूभृतः ॥
सोऽप्येनं शवराधीशः प्रशस्तं वीक्ष्य नीतवान् । केतनं विन्ध्यवासिन्याः पशूकर्तु नराधिपम् ॥
दृश्यैव च स देवीं तां प्रणमंस्तदनुग्रहात् । राजा स्कन्दप्रसादाच्च बभूव स्रस्तबन्धनः ॥
तदालोक्याद्भुतं मत्वा तस्य तं देव्यनुग्रहम् । मुमोच तं स राजानं शबराधिपतिर्वधात् ॥
एवं कनकवर्षस्य तृतीयादपमृत्युतः । अतिक्रान्तस्य तस्याभूत्पूर्णं तच्छापवत्सरम् ॥
तावच्च तस्य सा नागी राज्ञो मनसुन्दरीम् । देवीं सपुत्रामाय तत्रैवागात्पितृष्वसा ॥
जगाद तं च भो राजञ्ज्ञातकौमारशापया । एतौ ते रक्षितौ युक्त्या नीत्वा स्वभवनं मया ॥
तस्मात्कनकवर्ष स्वौ गृह्यैतौ प्रियासुतौ । भुङ्क्ष्वेदं पृथिवीराज्यं क्षीणशापोऽधुना ह्यसि ॥
इत्युक्त्वा प्रणतं सा तं नृपं नागी तिरोदधे । नृपोऽपि स्वप्तमिव तन्मेने भार्यासुतागमम् ॥
ततोऽस्य राज्ञो राश्याश्च चिरादलिष्टयोर्मिथः । अगलद्विरहक्लेशो हर्षबाष्पाम्वभिः सह ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/188
एतत् पृष्ठम् अपरिष्कृतम् अस्ति