पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/352

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५०
[ आदितस्तरङ्गः
कथासरित्सागरः ।

ततः स विप्नो निर्यातं मठिकातः स्मिताननम्। पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ॥
वप्रसादादहं रात्रावृषितो भगवन्सुखम् । किं तु यास्यन्ति मे प्राणास्तया दिव्यस्त्रिया विना ॥
तच्छुत्वा स तपस्वी तं हसन्कारुणिकोऽब्रवीत् । इहैवास्स्व पुनर्नक्तं भविष्यति तथैव ते ॥
इत्युक्ते व्रतिना तेन तद्युक्त्यैच प्रतिक्षपम् । चन्द्रस्वाम्यत्र सोऽभुङ्क भोगांस्तांस्तस्प्रसादतः ॥
बृद्धा च तं शनैर्विद्यप्रभावं विधिचोदितः । एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ॥
सत्यं कृपा चेद्भगवन्मयि ते शरणागते । तदेतां देहि मे विद्यां यत्प्रभावोऽयमीदृशः ॥
इति ब्रुवाणं निर्बन्धात्तं प्रत्याह स तापसः । असाध्या तव विचेयं साध्यतेऽन्तर्जले ह्यसौ ॥
तत्र चैषा सृजत्याशु जपतः साधकस्य तत् । मायाजालं विमोहाय येन सिद्धिं न सोऽश्रुते ॥
स हि तत्र पुनर्जातं बालमात्मानमीक्षते । ततो युवानमुद्वयूढदारं जातात्मजं तथा ॥
सुहृन्मेऽयमयं शत्रुरिति मिथ्या स मुह्यति । न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ॥
यस्तु त्रिरष्टवर्षः सन्गुरुविद्यप्रबोधितः। जन्म स्मृत्वा विदित्वा तीरो मायाविकृम्भितम् ॥
तद्वशोऽप्यत्र कुरुते तथैवाग्निप्रवेशनम् । परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति ॥
अन्यस्य न परं विद्या शिष्यस्यैषा हि सिध्यति । अस्थानर्षणतो यावद्रोरपि विनश्यति ॥
मरिसख्यैव फले सिद्धे किं ग्रहेणामुना तव । मत्सिद्धिदन्या मा जातु तवैतदषि नङ्क्ष्यति ॥
एवं तपस्विनोक्तेऽपि चन्द्रस्वामी ग्रहेण सः। शिक्ष्यामि सर्वं मा भूद्धश्चिन्तात्रेति तमब्रवीत् ॥
ततोऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः। बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ॥
ततो नीत्वा नदीतीरं स तं स्माह महामती । बरस विद्यां जपन्मायां यदा द्रक्ष्यसि तां तदा ॥
मायाग्निमेव प्रविशेर्विद्यया बोधितो मया । अहं च तावस्थास्यामि तवेहैव नदीतटे ॥
इत्युक्त्वाध्यापयामास तमचन्तं शुचिं शुचिः । स चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः ॥
ततस्तीरे स्थिते तस्मिन्गुरौ मूत्रं प्रणम्य तम् । चन्द्रस्वामी स रभसान्नदीमवततार ताम् ॥
तस्यामन्तर्जले विद्यां तां जपन्सहसैव सः । तन्मायामोहितो मिथ्या सर्व विस्मृत्य जन्म तत् ॥
वीक्षते यावदन्यस्यामुत्पन्नः स्वात्मना पुरि । पुत्रो विप्रस्य कस्यापि वृद्धिं स शनकैर्गतः ॥
कृतोपनयनोऽधीतविद्यो दारानवाप्य च । तदुःखसुखसंमूढः संपूर्णेऽपत्यवान्क्रमात् ॥
ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरन् । स्थितो बद्धरतिः साधु पितृभ्यां बन्धुभिस्तथा ॥
एवं जन्मान्तरं मिथ्या तस्यानुभवतोऽत्र सः । काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क तापसः ॥
स तद्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः । स्मृत्वात्मानं गुडें तं च मायाजालमवेत्य तत् ॥
उद्यतोऽग्निप्रवेशाय दिव्यासायफलाप्तये । पर्यवारि निषेधद्भिर्युद्धाप्तगुरुबन्धुभिः ॥
बहुधा बोध्यमानोऽपि तैर्दिव्यसुखलोलुपः। स सजितचितं प्रयान्नदीतीरं सबान्धवः ॥
दृष्णूत्र वृद्धौ पितरौ भार्या च मरणोद्यताम् । क्रन्दन्ति बाल पत्यानि सोऽथ मोह चिन्तयत् ॥
कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतोऽनलम् । न च जानामि किं सत्यं गुरोस्तद्वचनं न वा ॥
तकि नु प्रविशाम्यग्निमुत न प्रविशामि किम् । अथच तत्कथं मिथ्या स्यात्संवादि गुरोर्वचः ॥
तद्विशाम्यनलं काममित्यन्तः प्रविमृश्य सः । अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥
अनुभूतहिमस्पशों वहेथ स सविस्मयः । शान्तमायो नदीतीरादुत्थायोपययौ तटम् ॥
तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पाद्योः। पृच्छन्तं चाग्निशैत्यान्तं स्वमुदन्तमबोधयत् ॥
ततस्तं स गुरुः प्राह वत्स शी कृतस्स्वया । अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा ॥
अदृष्टमेतदेतस्या विद्यायाः साधने यतः । एतद्रोर्वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥
नापचारो मया कश्चिद्विहितो भगवन्निति । ततः स तद्वरुर्विद्यां जिज्ञासुस्तां समस्मरत् ॥
न च साविरभूत्तस्य न तच्छिष्यस्य तस्य । नष्टबिद्यवथोभौ तौ विषण्णौ जग्मतुस्ततः ॥
       इत्याख्याय कथामथ वेतालः पृष्टवान्स तं भूयः ।
       पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तम् ॥