पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः।

संमान्य प्रणिधिगिरां गरीयसीनामस्यन्तं तरलितताम्रतारकाणाम् । संरम्भो भुकुटिचल बच्चभासां क्रोधेन प्रसभमलम्भि भूपतीनाम् ॥ १॥ सारम्भ करतलताडनैः कठोरै केयूर मणिमयमच्छिदकुवान्धः । दोस्तम्भप्रणयिपराक्रमद्विपस्य प्रारम्भे युध इव शृङ्खलं सुबाहुः ॥२॥ भूपाला करपुटपेषतः प्रवृत्तं क्रोधान्धो दधदधिधाम धूमदण्डम् । संहर्तु भुवनमदशि दर्शकाख्यो युद्धात्मा यम इव दण्डवानुपेतः ॥३॥ अङ्गेऽङ्गे प्रतिफलितैर्महीपतीनामाकारैः प्रतिधनधर्मबिन्दु बिन्दुः अभ्यूहे कुरुकुलकोपितासुरद्विदसंरम्भप्रकटितविश्वरूपलीलाम् ॥ ४॥ चिक्षेप प्रमुदितमर्मरोमिकोत्थं रत्नाश्मप्रकरमनेकमेकलक्ष्यः । पाणिभ्या अवि कुसुमाञ्जलिक्रमेण प्रत्यर्थिक्षयनवनाव्यसूत्रधारः ।।५।। आक्षेपच्छिदुरकरालहार उचिर्मुक्तोषप्रकरमचारित्सुबन्यो । उन्माद्यद्गुरुभुजशौर्यवारणोधत्फूत्कारच्युतसितशीकरोत्करश्रीः ॥ ६॥ आस्फोटस्फुटमणिभङ्गमङ्गदानामुत्तुङ्गयुतिनिकरच्छलेनजिष्णुः । दोर्दण्डअसरदसशिरासहस्त्रैरातेने बलिमिव कोपकालरात्र्यै ।। ७॥Ba, M has fruits for IT, M3 erit 20 M omits : after a in tutte BaM8: प्रवृद्धि or प्रकृतं. MB दर्शकाख्य for दर्शकाख्यः HOME for जङ्गे 2 अशोर ,M3 दि for In M2 a,M पुरस्कार tor फूत्कार 7, Mutet for den in M3. Mऽस्तलेन for छलेन