पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः

अत्रैत्य लोचनकुलं तरणेस्तुरङ्गा अङ्ग क्षणं क्षुभितकूबरि क्रूणयन्ति ।। ४९॥ भयापनीभरिमयापनीभूरनाविलास्यामरनाविलास्या । विराजतीभारविराजतीभावराजिरामाधवराजिरामा ।। ५०॥ रागोपात्तैर्युवभिरव*शृङ्गारैर्गोसंपातैरुपवनरतिसंचारैः । अश्रान्त्यैव श्रमशमनसरोमन्थैर्लोकेनाराध्यत इह न चिरादुच्चैः ।। ५१ ॥ भवति कुजदरी गहनां गिरेरविरमअनकाममहानितः । रतिगृहांश्च निमर्त्ययमुच्चकैरविरमजनकाममहानितः ।। ५२ ॥ शयितकराल ___दतीनां गहनगृहेऽस्य सालवकुले सखीव सौख्यम् । दिशति निशि प्रवेश्य शनकैः प्रियेन्दुपादान् विकटदल____यत्र वात्या॥ ५३॥ वपुषि ललितां भूषां गत्या पुरन्ध्रिजनः कुचै- र्नवनखचितैरुच्चक्रान्तैरतीतनदीनते। इह मणिमयैः सिन्धुः प्रीत्यै ततस्ताभिस्तटे नवनखचितैरुचक्रान्तैरतीतनदीनते ॥ ५४॥ प्राग्भारदीर्घषदुस्थितनिराम्बु- लम्बिप्रवाहविकरालकर करोति । सिन्दूरसुन्दरपरागपिशङ्गमूर्धा रम्भाविजृम्भितरदोऽयमिभानुकारम् ॥ ५५ ॥490, for -518M3 युबतीभिरिव संकारैः b.M उपनतवनसंचार: 520 M for toyottet 53 MS ozats. 548,Mपल्या for गत्या bM नवनगततः वनखचितैः CM सिन्धू पीत्यै दत्तरूमिश्च : for the above. a,M नदानते for सदीनते। 55a, M9 want for शारभार