पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः विलासिना सपदि विपक्षसंनिधौ मुशर्मदं श्रवणवतंसगोचरे यदद्भुतं कुसुममपि प्रकल्पितं महाफलं सदभवदानतभ्रुवः ॥ २७ ।। समीयुषोः कमपि रसं विलासिनोः सखीजनो नववनराजिपिञ्जरे । अनीनमत्कुसुमचयापदेशतो लता लतागृहगहनत्वकाम्यया ॥ २८ ॥ समत्सरं निहितदृशं प्रतिस्त्रिया नखावलीवलयि नितम्बमण्डले । अदुर्ग्रहे तरुकुसुमेऽप्युदीरितां सुमध्यमा न नमयति स्म दोर्लताम् ॥ २९ ॥ समाहतः कुसुमदलैरवधवान् नियन्त्रितो नवविसनालतन्तुभिः । इयत्यपि स्फुटमभिगत्य निग्रहे प्रियः कथंचन समियाय सुभ्रुवः ॥३०॥ निवासयत्युरसि विलासशेखरं रतेश्वरं गदितविपक्षनामनि । मनस्विनी न परूषमामृषद्वचः सखीषु तु व्यधित दृशं पयःप्लुताम् ॥ ३१ ॥ वधूर्गुरोः प्रतिललनाविलोकने वतंसकाभिहितवतः स्तनावधौ । तया धृतं यदभृत तन्मयं मनो बभूव तत्फलगुरु पारितोषिकम् ॥ ३२ ॥ सवेपथुः स्वपदयुगासनीकृतस्थिरस्थितिप्रियतमपादपद्मया । लतान्यया निविडनितम्बमण्डलस्तनेरितप्रणयि तरो समाददे ॥३३॥ श्रुतेः पदं व्रजति नवोत्पले रुचिं तदाश्रयां तरलदृशो विलोचनम् । स्वशोचिषाहरत समत्वमानिनां समुन्नतिं न दधति दीर्घदर्शिनः ।। ३४॥ तनुत्विषो गुणगणशालिनः पुरः क्षमा स्थितिर्न सुतनुलोचनस्य ते । श्रुतिस्पृशः सितनलिनस्य षट्पदः क्वणन्निति व्यधित विगर्हणामिव ।। ३५ ।। पुरन्ध्रिभिर्विटपिषु लुप्तमञ्जरीसकेशरप्रतिनवगुच्छपङ्क्तिषु । पराङ्मुखैर्न पुनरसञ्जि षट्पदैः स्पृशन्ति वा कृशविभवं कमर्थिनः ॥३६॥ 27d,Nमहत्फलं for महाफलं 280, Msic for me 298,M विहित for निहित b,M वलयिनि मूलमण्डले BM जाल for नाल 300N समाहितः र समाइत: a.Nवस for सम् alN निदेशयत्युरसिम शेखरे 3ad, सने tor स्तने OM लतालया- for: तात्यया. 34bM बिडम्बना for विलोचनम् CM स्वशोचिों हरति । स्वशोचिषारत त, ददति for दधतिः 360,M निपुगरसह for: न पुनरसजिज