पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः रतं दधतिलकपदे कृतास्पदः कपोलयोश्विरमथ चुम्बितस्तनः। धृतायतिर्वपुरभितोऽभिषस्वजे नतभ्रुवा सलिलभरो निदाधजः ॥३७॥ मृगीदृशां रुचिरकचाञ्चितैरपि स्मितोदयादतिविकचत्वमागतैः । सुगन्धिभिः सदलकतामपि श्रितैर्दधे मुखैरसदलकत्वमग्रतः ॥ ३८॥ मनस्विनीमुखकमलेषु सालसा दृशो स्थितिं परमुपदिश्य वल्लभैः । अथादधे पुलकपयोभिरन्वयस्तदीक्षणव्यसनिषु नायकेष्वपि ॥ ३९ ॥ विपुलपुलकपूरव्याजता खानदूत्य- प्रहितनिजजलास्ताः सुभ्रुवो वल्लभाढ्याः । श्रमसमुदयमन्दाः स्यन्दिनीं मङ्क्तुमीयुः शुचिशिवशिशिराम्भःशीकरालीकरालाम् ॥ ४०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये कुसुमावचयों नाम नवमः सर्गः। 370,Ms onits. N Skovs lacuna lor 398,M3 omite. an Maret for ARTE b,M3 Writ, N at: for ATRIT: 386M. निफनत्व for विकवण MB विलय 40a,M3 बातभूय tor शानदूल्य HOMS सदलिझता. सदनिकल