पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ वनगहनान्निरीय पृथ्वीतलबिलनिर्गतनागनायिकाभाः । अभिनदि दिनकृत्करालतापलतापभ्क्लमवशमन्थरमन्थरं ययुस्ताः ॥ १॥ पथि पृथुलनितम्बचिम्बचुम्विस्खलितविशृङ्खलमेखलाकलापाः । कलितकलकलाकुला बभुस्ता प्रविसृततूर्यरवस्मरैकसेनाः ॥२॥ अपि धृतनिभृतात्ततातपत्रा विटपवतां पिबतां पथि प्रतापम् । प्रतिकृतिमजुषन्त जोषमता भवति हि मार्गगतः कदा न सेव्यः ॥३॥ उचितखचितचारुलोलचूडामणिगणकान्तिकदम्बकेन काचित् । समतत सितमप्यथातपत्रं चिरमिव चन्द्रकसान्द्रचन्द्र काङ्कम् ॥ ४ ॥ प्रियकरततमुत्तरीयमुच्चैः प्रतिवनितामभितः परं परस्याः अतत न बहिरेव तापशान्तिं व्यधित मनोऽप्यतितीव्रतापवन्ध्यम् ॥ ५॥ भ्रमितमभिमुखं प्रियेण बध्वा व्यजनकमीक्षणगोचरे परस्याः । यदनिलमनलं तयोश्च योगात् सममवमत् तदभूच्चिराय चित्रम् ॥ ६ ॥ पुलककणकरालपाण्डुगण्डस्थलफलितस्फुरदातपत्रकान्तिः । सुतनुरतनुघोरधर्मशान्त्यै विनिहितचन्दनराजिकेव रेजे ॥ ७॥ HEM अभिनव' for अभिनदि Pa,M3 बिम्बभार for बिम्बचुम्बि CM यधु:10 बभुः BaM. भूत: 10 वृक्ष bM प्रयास for प्रताप 4b,Mरोचिरुञ्चितेन: tor यान्तिकंदम्बान

  • 50

d.hrs विद्धम् for: वक्ष्यम् 60,Mतदनिल for: अनिल