पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

रचितशिखिविचित्रपत्रराशेरधिवसुधास्थितिमुष्णवारणस्य। प्रतिकृतिमविलक्षणां मृगाक्षी समतत नूपुररत्नरश्मिरागैः ॥ ८ ॥ घटयसि चदुलक्रमावलग्ने किमतितनीयसि तान्ततां श्लथत्वात् । इदमिव सुतनोर्जगौ गलन्ती मणिरशना पटुपादयोः पतित्वा ॥ ९ ॥ जडपरिचय एवं दोषपोषी तिरयति नूनमपत्रपां प्रवृद्धः। युवतिगतिविनिर्जिता जहुर्यद् मृदुगतिगर्वपरिग्रहं न हंस्यः ॥ १० ॥ अथ तदवयवावमर्षलीलातरलतरङ्गकराग्रकम्पमम्भः । अविवररववाहि वाहिनीयं प्रसममिवादविह्वलं महेला ॥११॥ अमलकमलकोमलाभिवेल्लत्परिमललालितलालसालिलोलः। । मरुदतनुत मन्थरोर्मिमालः शुचिजलशीकरशीतलार्धमासाम् ।। १२ ।। कलयितुमिव कौतुकेन कान्ताः कुवलयदृष्टिकुलानि कूलवत्याः । वपुरविरलपक्ष्मलक्ष्ममाञ्जि द्रुततरविद्रुतनैद्रमुद्रमूहुः ॥ १३ ॥ मुखपतितपुरन्ध्रिसौरभोत्कैर्नलिनकुलेष्यलिभिः कुलायलीलाम् । कलयितुमलसत्त्वमाललम्बे भवति दृढा मधुपायिनां क्व वृत्तिः ॥ १४ ॥ अथ सरिदरविन्दवृन्दसर्पत्पुरुमकरन्दपरागरागतोऽभात् । घटयितुमभिषेकमङ्गनानां परिहितपिङ्गलमङ्गलाम्बरेव ॥ १५ ॥ युवतिषु सरितं सखीष्विवैच्चैश्विरसमितासु समुत्सुकां समीक्ष्य। विकटतटनितम्बचुम्बनाय व्यधित न चक्रविहङ्गम प्रसङ्गम् ॥ १६॥ 9a,M3 मावसम्म tor नामावलझे bM & N fwR for forma UN मणन्ती tor महन्ती 30 M3 omits AM Mer tor एवं 11d,M सहेला TOP मला 12b.N'जाल: for लोल a, आवम् for अर्घ TAb-ME मुमुक्ष 10 नलिन CN slots lacuns for sofa 15b,N पुरुमकरन्दपरागरातोमाद । गुरुमकरन्दपरागलोभलाभार MS भोगलामात् for लोभलामात् a a,M3-मङ्गलपिनलाम्बरेव 16,M9 omitis. M.मसिताच tor समितासु 'd,N.प्रसन्नम् top पलाम,