पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः सर्गः धृतसन्धिरसो विचित्रवृत्तिविंदिधानः स्फुटशुद्धयात्रयोगम् । मधुवारविधिः सनायकाङ्को ववृधे नाटकवन्नितम्बिनीनाम् ।। १ ।। दधतस्तरुणानवेक्ष्य तृष्णामथ चित्रग्रहगृध्नुरासबाङ्कम् अमृजत् स्मरकिङ्करो वधूनां मुखपारीः प्रमदाश्रुवारिसेकैः ॥२॥ क्षुभितोत्कलिकेऽथ रागसिन्धौ सशशिश्रीर्मणिपारिजातयुक्ता । पिशुना समुदेष्यतः प्रियाणां मदिराभूद्दयिताधरामृतस्य ॥३॥ सममाहितपक्ष्मपातमारान् मदिरारागिणि पेतुरुत्सकानि । नयनानि वधूमुखे च यूनां चषके चालिकलानि सोत्पलाङ्के ॥ ४ ॥ लुलितालसलोचनं चलोष्ठं विलसत्कान्तकपोलमापताक्ष्या । निदधेऽधिमुखं सुखाय पत्त्युर्मुखगण्डूपसुरा नु भावना नु ॥ ५॥ यदभूषयदाननं नताङ्गयाश्चपके बिम्बवशादिमामतोऽसौ । परिणभ्य कपोलयोः सुरा तद् विदधे प्रत्युपकारिणीव कान्तिम् ॥ ६ ॥ सपरिसुतिवीचिभिः सकम्पं चषके चन्द्रमसं निरीक्ष्य दुध्युः मकरन्दपिशङ्गदीर्घिकाम्भःशफरीस्फारविवर्तनं युवानः ॥ ७॥ Sa-MS लो, for चलनेछ 0.ME for Brf अधि EIN: मुखायfor सुखाय 65,M ITS for ESET A.N कान्तम् । कान्तिम Th,M नवा or ::