पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः विनयवियुतं यावद्यावत्रपापरिवर्जितं कुशतरकृषं यावद्यावत्समाधिपराङ्मुखम् । धुतधृतिधुरं यावद्यावत्सुदीर्घमनोरथं युवतिषु मुदे तावत्तावद्रताङ्गमभून्नृणाम् ।।३१ ।। रुचिषु विलसन् फुल्लन् दृक्षु क्रियासु समुच्छलन भणितिषु लुठन् जृम्भासूद्यन्मुखेन्दुषु संगलन् । रतिषु निवसन्नङ्गे स्विद्यनदर्शि मृगीदृशां मनसि विकसन्निष्टादिष्टोऽनुवृत्तिमहोत्सवः ॥ ३२ ॥ व्यसनमचलं यत्राचार्यो व्रतं विषयार्द्रता सुहृदविनयो दास: प्रेम प्रभुर्मकरध्वजः । गृहमशिथिलाश्लेषः शच्या सरूपमभेदिता रमणमिथुनान्यन्याख्येयां दशां विजगाहिरे ॥ ३३ ॥ कथमिव वयं के वा कस्मिन् विधावभवाम वा किमुदितमदाः किं सोन्मादा हताः शयिता मृताः । किमिव तदभूत्सौख्यं किं वा सुखेतरदिस्यहो सुरतविरतौ जज्ञुश्चिन्ताकृतोऽपि न कामिनः ॥ ३४ ।। बलमकृतकं भूयान्वेषो विशुद्धिमदञ्जनं सततसुरभिः कर्णोत्तसः स्थिरस्थिति जीवितम् । अचरमतरं शृङ्गाराङगं प्रसाधनमक्षयं प्रियचटुविधिः स्त्रीणामेकोऽप्यनेक इवाभवत् ।। ३५ ।। 318 M3 mod for fegra; Me for MT for 995 bM for me 39 61 M is 31 in N VS amits. 2 ft for a बितरन निक्सन M for me 349, to for final al LM किम् for मृताः Ņbreaks o as nodu d M3 En for B