पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः । धेर्यैकबद्धकक्ष्येण धृतधूलि विवल्लगता । सुबाहुनाऽऽजिमल्लेन निजघ्ने निषधो युधि ॥८॥ प्रास्तावि लीला प्रोथेन सहसा कन्दुकन्धराम् निर्लूनां नयमानेन सहसा कन्दुकन्धराम् ॥ ९॥ चिकित्सातीतया गत्या साददायी धृतिं हरन् । शनकैरनरण्याङ्गे ददृशे संगलन्मदः ॥१०॥ धनिना धीनिधानेन धुनानेनाधुना धनुः । नाधूनि निधनाधानं नानधीनधनाधने ॥११॥ (निरोष्ट्यः ) मण्डलं माधता कृत्या परमाननमानया । आनिन्ये मधुकुन्देन्दोर्मान्धमाहखृतिराहुणा ।।१२।। ग्रासमानमनीकाभामतराशंसया डयत् । यामायतननीकाशं समराग्रमभाषत ।।१३।। दर्शकाश्मकभूपालौ विष्वगारम्भरोषितौ । योद्धुं निविविशाते ताविष्वगारम्भरोषितौ ॥१४॥ तुङ्गेषुमाला सैन्योतं गर्जतोरन्यमर्दनम् । द्वन्द्वयुद्धं ततो रिद्धं तुलामन्योन्यमागतम् ॥ १५ ॥ बिन्दुः कुकुरमाप्योच्चैरसमर्जुनपानतः । अनूनमूहे संग्रामे रसमर्जुनपानतः ॥ १६ ॥ सैन्यन्यासाय सेनान्यं निःसामान्यं समानयत् । महीं महामहीपालो दूरादैक्षिष्ट सांयुगीम् ॥१७॥ 71,ID- MU: follows 9 and in Nid is after 10, but it oaght to be after 8. Not forand in M A. प्राप्ता विन : प्रास्तायि लीला । निलूना निलूना 10. The order in M 11, 10 CM अमरस्य for: मनस्य M for EN नाधुनि र मानि 12-15, Not found in M 160M सपने संपाय for संग्रामे