पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः चण्डपट्टिशकुन्तासिफलतोमरभासुरे । तुरङ्गकुञ्जराविद्धे सम्बद्धो भीमसंगरे ॥१२८ ।। ( भाषाषट्कसमावेशः) वासरो वीर्यसूर्यस्य सरो धैर्योत्पलश्रियाम् । वासरोद्धा रणग्रामे स रोषाद्विद्विषामभूत् ।। १२९ ।। (काञ्चीबन्धः) महारथवरैरूढे स राजा बलिमुद्युते । उच्चैरथहयै रूढे तद्राजावभिदिद्युते ॥ १३० । समासितो मानयतः कलोहतः समासितो मानयत कलोहतः । समासितो मानयतः कलोहतः समासितो मानयतः कलोहत- ॥ १३१ ॥ (महायमकम् ) छायी मृधे हठाजीश इषुचापघटाकिणी । अथ गाढं तदा वीरः फलनीडं बभौ सुखी ॥ १३२ ।। ( अपुनरुक्ताक्षरः) राजितस्तेन सौर्याख्यो हृत्वारेर्बलराजितः । राजितस्तेजसा सोऽभूत् संप्राप्तोन्नतिराजितः ॥ १३३ ।। (आधन्तयमकम्) सन्तापसीतानलशुद्धदक्षिणो वृत्तः समानार्जुनयापनश्रिया । 128a,M for me d,M सम्बन्धी for सम्बद्धों M सागरे for संगरे 129a, N fa for free 1300,N जये for इयै 181;N has पादाभ्यास: for महायमकम् 182,M omits 1381,Mपशो for समालो