पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवर्णभूतोऽथ सुरासवासनो बभार सर्वेण पदेन रामताम् ।। १३४ ॥ (अर्थत्रयवाची) आश्रमालस्य मालस्य भैरवासिनि वासिनि । नास्या वरैस्य वैरस्य धूः पुराऽजनि राजनि ॥ १३५ ।। त्रातरक्षाक्षमानीतिमानीतिरपदापदः । औन्नत्यमाससादासौ सदा सौख्यातिवर्जितम् ॥ १३६ ।। आसीददक्षमानेष्टमस्य नारिक्षये मनः । आसीददक्षमानेष्ट इच्छा ग्रस्यसामनि ।। १३७ ।। (अयुग्मयमकम्) रणास्थासु विशालास्ये क्षिप्त्वारीनन्तकेतनौ । तेनास्तौ सुविशालास्ये बाहुभानन्तकेतनौ ॥ १३८ । लाञ्छितः साहसारामे सारामें यक्षमोहनः । मोहनः समभावेन भावेनर्क्षेलाञ्छितः ।। १३९ ॥ (सन्दष्टयमकम्) हतास्विलबलस्तेन ध्वस्तमुक्तैः स संयुगे। योधैः कतिपयैस्तस्थौ चिन्तावान् कोशलाधिपः ॥ १४० ।। (अमूर्धन्यः) सङ्कल्पराह्ययन् भक्त्या तुष्टाबारम्भवाहितम् । बुद्धमित्थं स रक्षायै तुष्टावारम्भवाहितम् ।। १४१ ।।: 33d, शब्देन ter सबैंग 1382,M for os Motvits (manat) 1892Mसहसा tor सामना 135cd, M omita तक दर्शक 136, M omits ab. 1409 खिन्न अखिल 137 M omits od spd reads for abste 5,Mमर्म र ससंक- 141M.आइरन for आशयन