पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः ज्वलद्भिर्व्यापकैर्धाम्ना पूरयन्तीति मारणे । स तस्थौ प्रातिहार्यैर्द्या पूरयन्तीति मारणे ॥ १४८॥ दम्यानां दृढदुःखदायिदहनं दत्त्वा द्विषां दाहनैः क्षिप्रं क्षेपदशां च तूलतुलया धीपावना पावनैः। भोग्यैर्भोगिभुजं प्रसेनजितमप्याह्लाद्य वैद्योतनै- स्तत्सेनासु च जीववर्षणपरैः स प्रातिहार्यैर्बभौ ॥ १४९ ।। कलयन्नमित विचापलास्यं शरणाशं विपदा तिरोहितान्तम् । नततामरसे नवात्यपालं सरसानीकमरातितः सभानम् ।। १५० ॥ स्रस्तस्तम्बेरमास्ये मथितरथपणे सुप्तसप्तौ समाप्ते स्े सैन्ये दैन्यदोषादिति जिनजनितैः प्रतिहार्यैरहार्यैः । मन्त्राम्भस्तम्भितोष्मस्फुरण इव फणी कप्फिणोऽथाम्युपायं जन्यस्याजन्ममुक्ते शिवमयबुबुधे नापरं बुद्धभक्तेः ।।१५१ ॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये युद्धवर्णनो नामाष्टादशः सर्गः 1488 Naloz hi b, पूरयन्निति Kor पुरवन्तीति 1496 for dat सा सेना सुरजीवकणपरैः for तल्सेनासु च जीववर्षणपरैः 150 M omits 1618Mअस्तसम्बरमा lot नरसस्तम्बरमा ६,M याल मन्त्राम M को for कम्कियो bM मोस्य भोय Na torna