पृष्ठम्:करणकुतूहलम्.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (९५) त्पञ्चदशाभ्यः शेषस्योनत्वाद्गम्य एवमस्तसाधने श्लोको- क्तवत्क्रिया ॥२॥ अथ शुक्रस्योदयास्तौ शार्दूलविक्रीडितद्वयेनाह- पञ्चेशोनगणोऽब्दभूपलवयुग्वेदाष्टबाणैर्हतः पश्चा- त्षट्कृतिभिर्नगाष्टयुगलैः शुक्रोदयास्तौ क्रमात् । शेषैः प्राग्नगगोयमैर्गजयुगप्राणैस्तदानीं च य- स्तिग्मांशशोरुदयःखखाग्निरहितःपश्चात्तु तत्सप्तमः॥३॥ क्षुण्णः पञ्चगुणैः शरैश्च विषयैरङ्गाग्निसंख्यैः क्रमा- द्रक्तस्तेन च भोदयेन फलयुक्प्पाक्छेषकैरुद्गमः । ज्ञेयश्चास्तमयः फलेन रहितैः शोध्यं न शुध्येद्यदा कार्य व्यस्तविशोधनं धनमृणं व्यस्तं तदुक्तं तदा ॥४॥ अहर्गणः पञ्चेशोनः पञ्चदशाधिकशतेन ११५ हीनो- ब्दकरणगताब्दानां भूपलवेन षोडशांशेन १६युक्तो वेदाष्टबाणै- श्चतुरशीत्यधिकपञ्चशतेन ५८४ भक्तो लब्धस्य प्रयोजना- भावः शेषैः षट्कृतिभिः ३६ षड़त्रिंशतासमैः पश्चादुदयः, नगाष्टयुगलैः २८७ पश्चादस्तमयः, नगगोयमैः २९७ शेषैः प्रागुद्गमः, गजयुगप्राणैः ५४८ शेषैः प्रागस्तमय इति । अथ शेषस्पष्टीकरणे तदानीं यस्तिग्मांशोरुदयः यस्याः संक्रान्तौ रविर्भवति तस्य पलानीत्यर्थः। खखाग्निभिः ३०० हीनाः कार्याश्चेद्यदि पश्चादुदयास्तौ तदा तत्समुदयः खखाग्निभिः ३००हीनः कार्यस्ततः क्रमात् पश्चिमोदये CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri