पृष्ठम्:करणकुतूहलम्.djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(९६) करणकुतूहलम् । साध्यमाने पञ्चगुणैः पञ्चत्रिंशद्भिः ३५ गुणनीयाः पश्चादस्ते शरैः ५ पञ्चभिः प्रागुदये विषयैः पञ्चभिः ५ प्रागस्तेङ्गाग्नि- संख्यैः ३६ षट्त्रिंशद्भिर्गुणनीयास्ततः स्वोदयेन भजेत् फल- युक् शेषकैरिति फलेन युक्ताश्च ये प्राक्शेषाः पूर्वागतशेषकै- रुद्गमो वाच्यः फलेन रहितैः प्राक्शेषैरस्तमयो वाच्यः। अथ विशेषमाह-शोध्यमंकं खखाग्नि ३०० लक्षणमुदये न शुध्येत्तदा व्यस्तशोधनं कार्य खखाग्निभ्यः ३०० उदयः शोध्यस्तदुष्थं भाजकेन भक्तं यत्फलं लभ्यते तच्छेषे व्यस्तं धनमृणं कुर्याद्यत्र धनं तत्रर्णं यत्रर्णं तत्र धनं कुर्यादयं विधि- रन्यत्रापि ज्ञेयो यथाहर्गणः १६०० ७४ पञ्चेशोनः १५ ९९ ५९ अब्दानां ४३८ भूपलवेन २७ । २२ युक्तः १५ ९९८६ । २२ वेदाष्टबाणैः ५८४ भक्तः लब्धस्य २७३ प्रयोजनाभावः शेषैः ५५४ । २२ गजयुगबाणेभ्योऽधिकेन प्रागस्तो गतः । शेषस्पष्टीकरणमत्र प्रागस्तत्वाद्दृषस्योदयः २५५ खखाग्निभिः ३०० रहितो न भवति तेनोदयः २५५ खखाग्नि ३०० मध्ये शुद्धः ४५ प्रागस्तत्वादङ्गाग्निभि ३६ र्गुणितः १६ २० स्वेन स्वोदयेन २५५ भक्तः लब्धेन ६। २१ प्रागागतं शेषम् ५५४ । २२ अस्तत्वादूनं क्रियते परं व्यस्तं तदुत्थमिति युतम् ५६० । ४३ प्रोक्ताङ्कैः ५४८ सहान्तरम् १२ ॥४३ प्रोक्तादधिकशेषैरेभिर्दिनैरिष्टाहर्गणा- द्गतोऽस्त इति, एवमन्यदपि यथास्थानं कार्यम् ॥ ३ ॥ ४ ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri