पृष्ठम्:करणकुतूहलम्.djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (९७ ) अथ शीघ्रकेन्द्रांशेभ्यो वक्रादिज्ञानमुपजात्याह- द्राक्केन्द्रभागैस्त्रिनृपैः शरेन्द्रैस्तत्वेन्दुभिः सप्तनृपै- स्त्रिरुद्वैः । स्याद्वक्रता भूमिसुतादिकानामवक्रता तद्रहितैश्च भांशैः॥५॥ असकत्कर्मणा स्थैर्यागतं भौमकेन्द्रं तस्य भागा अंशा यदि त्रिनृपास्त्रिषष्टयुत्तरशतपरिमिता भवन्ति तदा भौमस्य वक्रत्वमाह । एवं स्थिरशीघ्रकेन्द्रभागैः शरेन्द्रैः १४५ पञ्च- चत्वारिंशदुत्तरशतभागमितैर्बुधस्य वक्रत्वमाह । गुरोस्तत्वे- न्दुभिरंशमितैः १२५ । शुक्रस्य सप्तनृपैरंशैः १६७ शनेस्त्रि- रुद्रैरंशैः ११३ । अथोक्तांशैर्भांशेभ्यः ३६० शोधितैस्तत्त- द्वहस्यावक्रता गतिः। भौमस्य नगगोचन्द्रैरंशैः १९७ । बुधस्य तिथिनेत्रैः २१५ । गुरोः पञ्चाग्निदस्त्रैः २३५ । शुक्रस्य त्रिनवेन्दुभिः १९३ । शनेर्नगसिद्धैः २४७ वक्रता- त्यागो मार्गी स्यात् । द्राक्केन्द्रनागकैर्विशेषश्चात्र यतो वक्रारम्भे वक्रत्यागे च गतिः पूर्णं यातो यातो यावद्भिः शीघ्रकेन्द्रांशैर्गतिः पूर्ण स्यात्तावन्तः केन्द्रांशाः पाठपठिताः यथा शनेस्त्रिरुद्रपरिमिते केन्द्रांशे ११३ भुजज्या ११० । १८ कोटिज्या ४६ । ४२ शीघ्रफलम् १ । ४ । ३ कर्णः ११५ । ३३ केन्द्रगतिः ५७ । ८ गतिफलम् ५९ । ८ शीघ्रभुक्तिः ३९ । ८ शोधितम् । ६ स्पष्टागतिरेवम् एवं मुनिसिद्धमिते केन्द्रे २४७ऽपि भुक्तेरेवं सर्वेषां ज्ञेयम् ॥ ५॥ . CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri