पृष्ठम्:करणकुतूहलम्.djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१००) करणकुतूहलम्। अवक्रादीनां मार्गादीनां ये प्रोक्ता भागास्तेभ्योऽधिकक्षा- गानां कला शीघ्रकेन्द्रगत्या भक्ता लब्धैर्दिनादिभिर्ग तैरवक्रा- दयो भवन्ति अथ यदा प्रोक्तभागेभ्यो द्राक्केन्द्रभागा ऊना- स्तदा प्राग्वल्लब्धदिनादिभिर्गम्यैरवक्रादयः स्युः, अत्रासन्ने वक्री कोऽपि नास्ति तेन तदुदाहरणं न दर्शितम् । मार्गस्यो- दाहरणं यथा भौमशीघ्रकेन्द्रम् ६ । २२ । ३३ । ४७ गतिः 31।7 ग्रन्थोक्तमार्ग केन्द्रगतिः ६ ।17।0।0 अनयोरन्तरांशाः ५ । ३३ । ४५ विकलाः २००२५ द्राक्केन्द्रगत्या विकलारूपया भक्ता लब्धै- र्दिनादिभिः १०।४३।३२ प्रोक्तेभ्योऽधिककेन्द्रांशत्वादिष्ट- समयाद्तो मार्गी। एवं वैशाखकष्णे ३ बुधे उदयाद्गतघटी १६।२८ समये मार्गी भौम एवं सर्वेषां कार्यं बुधस्य पश्चि- मोदयज्ञानाय शीघ्रकेन्द्रम् २।३।८।४३प्रोक्तकेन्द्रम् १।२०। ०।० अनयोरन्तरांशाः १३।८।४३ विकलाः ४७३२३ द्राक्केन्द्रगत्या १८०।२४ भक्ता लब्धं दिनादि ४।२२।१९ स्वल्पत्वात्पलानि त्यक्तानि प्रोक्तेभ्योऽधिकत्वागत उदयः एवं वैशाखकृष्णेटौम 8 भौम उदयाद्गतघटी ३७ । ४१समये बुधस्य पश्चिमोदयो जात एवमन्येऽपि ॥ ८ ॥ अथ ग्रहाणां कालांशाः पातविक्षेपाः शार्दूलवि- क्रीडितेनाह- सूर्याः १२ सप्तदश १७ त्रिभूपरिमिता १३ रुद्रा ११ नवाक्षेन्दवः १५९ कालांशाः शशिनोऽनृजोः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri