पृष्ठम्:करणकुतूहलम्.djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुद कौमुदीटीकासमेतम् । (१०१) कुरहिताः पाताः कुजाद्राशयः। रुद्रे ११ शोङ्क९ दश १० द्विपा ८ अथ लवा. अष्टौ ८ ग्रहाः९ कुञ्जराः ८ शून्यं० शैलभुवः १७ स्वचञ्चलफ- लैर्व्यस्तैरमी संस्कृताः॥९॥ शशिनश्चन्द्रादारभ्य सूर्यादयः कालांशाश्चन्द्रस्य द्वादशका- लांशाः भौमस्य सप्तदश बुधस्य त्रयोदश गुरोरेकादश शुक्रस्य नव शनेः पञ्चदश १५ अनृजोर्वक्रिणो ग्रहस्य कुरहिता एकेन हीना अत एव कालांशाः यथा वक्रिणो भौमस्य षोडश १६ बुधस्य द्वादश १२ गुरोर्दश १० भृगोरष्ट ८ शनेश्चतुर्दश १४ अथ भौमादारभ्य रुद्रादिराशयोऽष्टाद्यंशा- धिकाः पाताः स्युः यथा भौमस्य पातो राश्यादिः ११।८ एवं बुधस्य ११।९ गुरोः ९।८ भृगोः १०० शनेः८।१७ अमी पाताः स्वस्वशीघ्रफलैर्व्यस्तैः संस्कृताः कार्याः धनै- र्हीनाः हीनैर्युक्ताः स्पष्टाः स्युः बुधशुक्रयोः पाताः स्वमन्दा- भ्यां फलाभ्यां ग्रहवदेव युक्तहीनौ कार्यौ तयोः पातौ स्पष्टौ स्तः केनचिदनयोर्मन्दफलं व्यस्तं कृतं तदसते सम्य- ग्वासनां न जानन्ति ॥ ९ ॥ अथ भौमादारभ्य कलात्मकविक्षेपात्तथा साधनं च शार्दूलविक्रीडितेनाह- मन्दाभ्यां बुधशुक्रयोरथकुजाद्विक्षेपकाः खेश्वरा ११० द्वीषुक्ष्माः १५२ षडगाः ७६ पडग्निश- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri