गणककुमुदकौमुदीटीकासमेतम् । (१०३) शुद्धास्ते नवतेः स्युरुन्नतलवाःसाध्ये पृथक्तज्ज्यके। क्षेपनी नतशिञ्जिनी गुण३ गुणा भक्तोनतांशज्यया स्वर्णं लब्धकला ग्रहे शरनतांशैकान्यदिक्त्वे क्रमात् ॥११॥पश्चाव्द्यस्तमितीह दृष्टिखचरस्त- त्सूर्ययोरल्पकः कल्प्योऽस्त्वपरस्तनुश्च घटिकाः प्राग्वत्तयोरन्तरे । पश्चात्षङ्मयुतात्तु ता रसहताः कालांशकाः संति तैः प्रोक्तेभ्योऽभ्यधि- कैर्गतः समुदयो न्यूनैस्तु गम्यस्ततः ॥ १२॥ व्यस्तश्चास्तमयस्तदन्तरकलाःखाभ्राग्निभिः सङ्गुणा भानो राश्युदयेन चेदपरतस्तत्सप्तमेनोद्धृताः । ताः स्युः क्षेत्रकला जवान्तरहृता के जवैक्योद्धृता यातै- ष्योऽस्तमयोऽथवा समुदयो ज्ञेयोऽत्र लब्धैर्दि नैः॥१३॥ प्रागिति प्राच्यामुदेति क्षितिजोऽष्टदस्त्रैरित्यादि पूर्वसम्बन्धि- केन्द्रांशैर्यदि ग्रहस्योदयास्तावायाति तस्मिन्दिने तदासन्नग्रहं स्फुटं विधाय यदि प्राच्यामुदयास्तौ तदा राशित्रयेण हीनं कुर्याद्ग्रहं प्रतीच्यां चेत्तदा त्रिराशियुतं कुर्यादेवंभूतस्य ग्रहस्य क्रान्ति कुर्यात्परं सा क्रान्तिः शरेण संस्कृता न कार्या केव- लैव ग्राह्या, उक्तं च भाष्येऽत्र केडपीयं क्रान्तिः शरेण संस्का- र्येति क्रान्तिमुत्पादयन्ति सा वृथैव ज्ञेया कस्मात्रिभहीनयुक्त- ग्रहस्य विमण्डलाभावात्तस्मादेव केवलाःक्रान्त्यंशाः प्रसाध्याः इति ततःकान्त्यक्षयोर्भिन्नदिक्त्वेऽन्तरमेकदिक्त्वे योग इत्यनेन CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri
पृष्ठम्:करणकुतूहलम्.djvu/१०८
एतत् पृष्ठम् परिष्कृतम् अस्ति