पृष्ठम्:करणकुतूहलम्.djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

- गणककुमुदकौमुदीटीकासमेतम् । (१११) अथ शृङ्गोन्नत्यधिकारो व्याख्यायते तत्रादौ वलन- साधनमुपजात्या सार्द्धेन्द्रवज्रयाह- क्रान्तेः कलाः सायकसंस्कृतेन्दोः सषड्भसूर्यायमसं- स्कृतास्ताः । व्यर्केन्दुदोर्ज्यागुणितैः पलांशैः खार्कोद्धृतेरप्यथ संस्कृताश्च ॥ १ ॥ व्यर्केन्दुदो- राशिभिरिन्द्रियग्नैर्भक्ता भवेयुर्वलनाङ्गुलानि ॥ अत्र चन्द्रार्कयोर्दक्षिणोत्तरमन्तरं भुजःपूर्वापरमन्तरं कोटि- रनयोरन्तरं तिर्यक्करण एवं व्यस्रक्षेत्रं शृङ्गोन्नतिसाधनहेतुकं कृष्णपक्ष औदयिकस्य शुक्लपक्षेऽस्तकालीनस्य चन्द्रस्य, उक्तं च-मासान्तपादे प्रथमेऽथवेन्दोः शृङ्गोन्नतिर्यदिवसेऽवगम्या। तदोदयेऽस्ते निशि वा प्रसाध्य” इति तस्य चन्द्रस्य कलादिका क्रान्तिः कलादिना शरेण संस्कृता भिन्नदिक्त्वे वियुक्तैकदि- क्त्वे युक्ता तदौदयिकस्य तात्कालिकस्य वा राशिषट्कयुतस्य सूर्यस्य क्रान्त्या पूर्ववत्संस्कृता सषड्भिः कस्मात्क्रियते तदुच्यते उभयोः क्रान्त्योरेकदिश्यन्तरमन्यदिशि योग एवं कृत उभयो- र्दक्षिणोत्तरमन्तरमुत्पद्यतेऽत्रैकदिशि योगोऽन्यदिश्यन्तरमि- त्युक्तं तत्सार्थक्यकरणाय सषड्भः कृतः सषभ कते दिगन्यत्वं भवतीत्यतः सषड्भः कृतः अथार्केण हीनस्य चन्द्रस्य भुजज्य- याक्षांशा गुणिताः खार्कै १२० र्भक्त्ता लब्धेन पूर्ववत्संस्कृता- क्षांशवशेन दिकं । अथ रविहीनचन्द्रस्य भुजराशयः पञ्च ५ गुणास्तैः सर्वसंस्कारसंस्कृता चन्द्रक्रान्तिर्भाज्या लब्धमङ्गुला- द्यं वलनं भवति क्रान्तेर्या दिक् सा वलनस्यापि ज्ञेया । यथा CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri