पृष्ठम्:करणकुतूहलम्.djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (११३) अनेन ८५०३ भक्ता लब्धमङ्गुलायं वलनम् ०।४७ सर्व- संस्कारसंस्कृता क्रान्तिर्याम्या तस्माद्वलनमपि याम्यम् ॥१॥ अथ सितासितप्रमाणमिन्द्रवज्रार्द्धेनोपजात्यर्द्धेन च व्याचष्टे- व्यर्केंन्दुकोट्यंशशरेन्दु १५ भागो हारोऽमुना षट् कृतितो ३६ यदाप्तम्॥२॥ द्विष्टं च हारोनयुतं तदर्धे स्यातां क्रमादत्र विभास्वभाख्ये॥ अर्कोनचन्द्रस्य कोटिः पञ्चदश १५ भक्ता यदाप्तं तद्धारो भवत्यमुना हारेण षट्कृतिः षट्त्रिंशत् ३६ भक्ता कार्या यल्लब्धं तत्स्थानद्वयस्थितमेकत्र हारेणोनमपरत्र युतं तयोरर्द्धे विनास्वभाख्ये स्यातां सितासिताख्ये भवतः हारोनार्द्धंविभा हारयुतार्द्धं स्वभेत्यर्थः । यथा व्यर्केन्दुको- ट्यंशादिः ७३।३९।१९ शरेन्दु १५ भक्ते लब्धम् ४।५४ अयं हारोऽनेन षत्रिंशद्भक्ताः लब्धम् ७।२० द्विष्ठः ७।२० एकत्र हारेणोना २।२६ अर्द्धम् १।१३ जाता विभा, अपरत्र हारेण युता १२।१४ अर्द्धं ६ । ७ जाता स्वभा ॥२॥ अथ परिलेखमुपजात्यर्द्धेनेन्द्रवज्रया चाह- विधाय सूत्रेण षडङ्गुलेन वृत्तं दिगतं वलनं च वृत्ते ॥३॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri