पृष्ठम्:करणकुतूहलम्.djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(११४) करणकुतूहलम् । प्राक्शुक्लपक्षे परतश्च कृष्णे केन्द्राद्विभां तद्वलना- ग्रसूत्रे । कृत्वा विभाग्रे स्वभया च वृत्तं ज्ञेयेन्दुख- ण्डाकृतिरेवमत्र ॥ ४॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबु- द्विवल्लभे शृङ्गोन्नतिप्रसाधनम् ॥७॥ समायां भूमौ कागदे पट्टे वा षडङ्गुलेन सूत्रेण कर्काटकेन वा चन्द्रबिम्बं कृत्वा तस्मिन्बिम्बे प्रागपरादिक्चिह्नं कृत्वा प्रागानीतं वलनं यथादिशं देयं तच्च शुक्लपक्षे प्राग्भागे देयं कृष्णपक्षे पश्चिमभागे ततो यत्र वलनाग्रं ततः केन्द्राभिमुखं सूत्रं प्रसार्य्य तस्मिन्सूत्रे विज्ञासूत्रकं देयं तस्मिन्वलनाग्रसूत्रे केन्द्राद्वलनाग्रगा विभा देया, एवं कदाचिद्विम्बमुल्लिख्य दूरेऽ- पि विभासूत्रं भवति तस्माद्विभाग्रस्थस्वभामिते कर्काटकेन वृत्तं कर्तव्यमस्माद्वृत्ताद्बहिर्भूतमिन्दुमण्डलमिन्दुखण्डाकृतिश्चेति ज्ञेयं यद्दिक्कं वलनं तद्दिक्कस्थं शृङ्गं नीचं ज्ञेयमन्यदिक्स्थमु- न्नतं विद्धि जानीहीत्यर्थः । अथ कश्चिद्विशेषः यदा षडङ्गु- लाधिका विभा भवति तदा केन्द्राद्वलनाग्ररेखाभिमुखं विभा- प्रमाणेन भूमौ वा पट्टे विभाचिह्नं कार्यं ततस्तस्य प्रभाप्रमाणेन वृत्तं कार्यमित्येतत् प्रायः शुक्लाष्टमीदिने न भवति । अमा- वास्यायां चन्द्रार्कयोरेकत्वाद्विक्षाया अभावः षडड्डुला विभा स्वभा भवति, अष्टम्यामष्टादशाङ्गुला विना स्वभा च भवति यत्र तत्र कोटेरभावस्तदा हाराभावः प्रायस्तत्र याम्यं वलनं CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri