पृष्ठम्:करणकुतूहलम्.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(११८) करणकुतूहलम्। अथ भौमादिकानां कलामयानिबिम्बानि तत्स्प- ष्टत्वं चन्द्रवज्रोपजात्यर्द्धेनाह- पञ्चाङ्गसप्ताङ्कशराः पृथक्स्थास्त्रिज्याशुकर्णान्तर- सङ्गुणास्ताः॥ त्रिघ्नैः पराख्यैर्विहृताःफलोनयुक्ताः पृथक्स्थास्त्रिभमौर्विकायाः॥१॥ कर्णेऽधिकोने त्रिहृता भवन्ति विम्बाङ्गुलानीति कुजादिकानाम् ।। पञ्चकलापरिमितं ५ भौमस्य मध्यबिम्बं बुधस्य षङ्कलाः ६ सप्त गुरोः ७ नव शुक्रस्य ९ पञ्च शनेः ५ ताः पंच कलाः पृथक्स्थाप्यास्त्रिज्याशीघ्रकर्णयोरन्तरेण गुणिताः स्वकीयैस्त्रि- गुणैः पराख्यैर्भक्त्ता यल्लब्धं तेन पृथक्स्था ऊनयुक्ताः कार्याः यदि त्रिज्यातः १२०अधिकः कर्णस्तदा पृथक्स्था हीनाः कार्याः यद्यल्पस्तदा युक्ताः कार्याः ताः स्फुटा ग्रहाणां बिम्ब- कलाः स्युस्त्रिभि३र्भक्त्ता लब्धं भौमादिकानां बिम्बाङ्गुलानि भवन्ति । अथ गुरोर्मध्यबिम्बकलाः ७ त्रिज्याशीघ्रकर्णयो- रन्तरेण १५। ९ गुणिताः १०६ । ३ गुरोः पराख्यै २३ स्त्रिगुणैः ६९ भक्ता लब्धम् १।३१ अनेन त्रिज्यातः कर्णस्याधिकत्वात्पृथक्स्था गुरोर्मध्यबिम्बकलाः ७ ऊना जाता गुरोर्बिम्बकलाः स्पष्टाः ५। २९ त्रिविभक्ता जातानि स्पष्टानि गुरोर्बिम्बाङ्गुलानि १ । ४९ । अथ शुक्रस्य मध्या बिम्बकलाः ९ पृथक्स्थाः ९ त्रिज्या १२० शीघ्रकर्णयो ८९ । २३ रन्तरेण ३० । ३७ गुणिताः २७५ । ३३ पराख्येण ८७ त्रिगुणेन २६१ भक्ता लब्धम् ।1। ३त्रिज्यातः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri