पृष्ठम्:करणकुतूहलम्.djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकल्प्य गणककुमुदकौमुदीटीकासमेतम् । (१२३) याम्योत्तरस्थयोरन्तरे स्पष्टेषुः स्पष्टो बाणो ज्ञेयः स स्फुटशरो द्वयोर्दृश्या युतिर्भवति तस्माल्लम्बनादि साध्यम् ।उक्तं च खेटौ तौ दृष्टियोग्यौ यदि युतिसमये कार्यमेवं तदेव" इति तल्लक्षणमग्रे वक्ष्यति । अथ लम्बनार्थं चन्द्रसूर्यकल्पना द्वयोर्मार्गग्रह- योर्मध्ये यो मन्दाक्रान्तो मन्दगतिको ग्रहः स रविः कल्प्यः यदि वा यो वक्री स शीघ्रो वा मन्दो वा रवेरन्यश्चन्द्रः कल्प्य उभयोर्वक्रिणोर्व्यस्तमिति यस्तु शीघ्रःस रविरन्यश्चन्द्रः प्रकल्पय एवं कल्पयित्वा कल्पितार्कात्किल्पितो विधुर्यत्र यस्यां दिश्युत्तरतो दक्षिणतो वा व्यवस्थितः सा दिक् शरस्य ज्ञेया यस्तु सूर्यः स छाद्यश्चंद्रश्छादक इति । अथ लम्बनसाधनोपायः यो युतिसमयः समागतस्ता एव दर्शान्तघटिकाः कल्प्यास्ताभ्य इष्टघटीभ्यः सषड्भसूर्याल्लग्नं साध्यं सषड्भसूर्यः कथं कृतो यतः सूर्यस्य रात्रावेव युति- र्दृश्या भवत्यतः सषङ्भः कृतः कदाचित्सूर्यस्य रात्रावपि भचक्रवशाद्ग्रहस्यास्तत्वाद्युतिर्न दृश्यते ग्रहस्य सूर्यदिने त्ववश्यं न दृश्यते तल्लक्षणं वक्ष्यति ततस्तल्लग्नं सायनं वित्रिभं कार्य ततः समकला पूर्वविधिना सूर्य प्रकल्प्य तभ्रिनोन- लग्नकल्पितसूर्यान्तरभागेभ्यः सप्ताद्रय इति सकृत्प्रकारेण मध्यमलम्बनं स्पष्टलम्बनं कृत्वा युतिसमयघटिकासु कल्पि- तरविग्रहस्य प्राग्भाग ऋणं त्रिभोनलग्नेऽहीने सत्युभयथापि तुल्यं भवति पश्चिमत्रिभोनलग्नेऽधिके सति वा धनं कार्यं कल्पितरवेः सकाशादग्रेतनाः

षड्राशयोऽधिकास्तत्पृष्ठ-

- ग्रहस्य सूर्यदिने CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri