पृष्ठम्:करणकुतूहलम्.djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२४) करणकुतूहलम् । भागस्थाः षड्राशयो न्यूना इति अधिकोनताज्ञेया नत्वङ्कानां संख्यायाः प्राङ्नतेस्त्रिभोनं न्यूनमेव भवति पश्चिमनतेर्वित्रिभमधिकमेव भवत्येतत्सर्वं सूर्यग्रहणे व्याख्यातं प्रायो यो यत्र राशौ भवति तस्मादग्रेतनाः षडधिका राशयस्तत्पृष्टषड्राशय ऊना एवेति भावः । एवं लम्बनसं- स्कृतः स्फुटो भवति स एव सायनः लम्बनसंस्कृतकाला- न्न्यूनं वित्रिभं लग्नं कृत्वा नतांशाः कर्तव्यास्तन्नतांशान् शीघ्रग्रहस्य मध्यगतिपञ्चदशांशेन सङ्गुण्य त्रिज्यया विभ- जेत्सा कलादिका नतिः सा पुनः सार्द्धद्वयेन भक्ता सत्यङ्गु लादिनतिर्भवति तया चन्द्रशरः संस्कार्यः। उक्तं च "दृक्क्षेप इन्दोर्निजमध्यभुक्तिस्तिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ।नती रवी न्द्वोरिति” । यथा युतिसमये रविरात्रिशेषघटी १४।५६प्रमाणः लम्बनार्थमेतत्कालीनसूर्यः१।२।५१।५४इष्टकाल :१४।५६ अयनलग्नं तच्छुद्धसूर्यात्साध्य नतु कल्पितकान्तिस्तच्छुद्धसू- र्यात्सुखार्थमुत्क्रमलग्नं सायनम् ९ । २६ । २ । ३९ अस्य क्रान्तिः१० । २० । १६ दक्षिणा नतांशाः ३४।५५।२५ उन्नतांशाः ५५॥ ४ । ३५ उन्नतज्या ९८ । ५ मन्दो गुरुस्तेन सूर्यः कल्पितः शीघ्रः शुक्रः सचन्द्रः सायनो युति- समयिको गुरुः । ४ । ५२ । २५ वित्रिभम् ६ । २६ । २१ । ३९ अनयोरन्तरम् ५। ८।३० । ४६ भुजः ०।२१। २९ । १४ सप्ताद्रय इत्यनेन मध्यमलम्बनम् CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri