पृष्ठम्:करणकुतूहलम्.djvu/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१३४) करणकुतूहलम्। वा व्यतीते । पातेऽथ गम्ये तिथितश्च्युतास्ते द्विधा द्विधा भोग्यदलादिकानि ॥५॥ द्वित्रीणि विन्यस्य पृथग्दलानि गम्यानि गम्येऽथ गते गतानि। एकस्थमेवास्य तु भोग्यखण्डं यस्या- ल्पकाश्चायलवा भवन्ति ॥६॥ विश्वांशकेनापमभोग्यकस्य भोग्यादितः क्रान्ति- दलानि तानि । संस्कृत्य पूर्वं शरखण्डकैश्च स्युः संस्कृतानि क्रमशः स्फुटानि ॥७॥ गते पाते उभयत्र ये शेषनागास्ते चापाह्वयाश्चापांशका ज्ञेयाः । अथ गम्ये पाते पूर्वागताः शेषांशाः पञ्चदशभ्यः १५शुद्धाः शेषं चापांशसंज्ञका उभयत्र ज्ञेयम् । एवं कान्तेः शरस्य च चापांशान् विधायैकान्ते स्थापये यथात्र गतपा- तत्वाच्छेषांशका एव चापांशा एवं चापांशाः क्रान्तेः १४।५।२१ शरस्य च ११ । ५३ । ३० ततः क्रान्तेः शरस्य च भोग्यखण्डमादीकत्य द्वित्रीणि खण्डानि द्विधा पृथग्विन्यसेत्, यदि पातं गतलक्षणं भवति तदा गतखण्डानि एष्यलक्षणे पाते एष्यलक्षणानि खण्डानि विन्यसेत्, शर- क्रान्त्योर्मध्ये यस्य चापांशाः स्वल्पास्तस्य भोग्यखण्डमेक- स्थमेव स्थाप्यमन्यानि द्विधा २ यथागतानि तेषां स्था- पितखण्डानां धनर्णसंज्ञा पूर्वं कृतैव स्वल्पशरे खण्डकं द्वयं महच्छरे त्रय एव मध्यमा भवन्ति । अनया रीत्या संस्थाप्य CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri