पृष्ठम्:करणकुतूहलम्.djvu/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
गणककुमुदकौमुदीटीकासमेतम् ।

 अथ मध्यमचन्द्रानयनमाह-

 अह्नांगणः शक्रगुणो विहीनःस्वात्यष्टिभागेन लवा-

 दिरिन्दुः । अहर्गणात्खाभ्ररसाष्ट ८६०० भक्तादा-

 प्तेन भागादिफलेन हीनः॥८॥

 अह्नामिति । अस्योदाहरणार्थः-यथाहर्गणः १५९३१६ शक्रैश्चतुर्दशभिर्गुणितः २२३०४२४ स्वात्यष्टि १७ भागेन शक्रगुणोऽहर्गणः , हीनः, अत्यष्टिभिः १७ सप्तदशभिर्भक्तो लब्धेन पूर्ववदंशादिना १३१२०१ । २४ । ४२ शक्रगु- णोऽहर्गणः २२३०४२४ हीनः २०९९२२२ । ३५। १८ अथ संस्कारो यथाहर्गणात् १५९३१६ खाभ्ररसाष्ट- षडशीतिशतैः ८६०० भक्तादाप्तेनांशादिना १८।३१।३० पूर्वागतो २०९९२२२ हीनः २०९९२०४ । ३।४८ पूर्ववद्भगणादिः ५८३१ ॥ १।१४।३ । ४८ स्वक्षेपेण १० । २९ । ५। ५० युतश्चन्द्रो मध्यमः स्यात् । भगणः, ५८३२ । राश्यादिः ।।१३।९।३८॥८॥

 अथोञ्चानयनमाह-

 गणो द्विधा गोभि ९ रिनाभ्रवेदै ४०१२ र्लब्धैक्य-

 मंशादि भवेद्विधूच्चम्।

 गणोऽहर्गणः १५९३१६ द्विधा स्थानद्वये स्थाप्य एकत्र गोभि ९ र्भक्तो लब्धमंशादिः १७७०१ । ४६ । ४० अपरत्र गण १५९३१६ इनाभ्रवेदैर्द्वादशाधि-

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri