पृष्ठम्:करणकुतूहलम्.djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१३५) स्फुटानि कार्याणि । अत्र गतपातत्वाद्भोग्यखण्डमादीकत्य गतखण्डकानि द्विधा स्थाप्य तानि शरस्य स्वल्पचापांशत्वा- च्छरस्य भोग्यखण्डमेकत्र स्थापितं शेषाणि गतखण्डकानि द्विधा स्थापितानि धनर्णसंज्ञा पूर्वं कृतैव यन्त्रतो ज्ञेया । अथ स्पष्टक्रिया। विश्वांशकेनेति । अपक्रमस्य क्रान्तेर्भोग्यखण्डस्य विश्वांशकेन १३ त्रयोदशांशकेन भोग्यादीनि क्रान्तिखण्डानि पूर्व संस्कृत्यैकजात्योर्द्धनरूपयोःऋणरूपयोर्वान्तरमन्यजात्यो- र्धनर्णरूपयोर्योग एवमेकगोले वैपरीत्यमेकजात्योर्योगो भिन्न- जात्योर्वियोगो ग्रन्थेऽनुक्तं भाष्य उक्तत्वात्कार्यम्, एवं संस्क- तानि क्रान्तिखण्डानि स्फुटानि स्युः पुनः शरखण्डकैः संस्कृ- तानि स्फुटतराणि भवन्ति, संस्कारास्त्वेकजात्योर्योग एवमन्य- गोले त्वेकजात्योर्योगोऽन्यजात्योरन्तरमिदमेव सिद्धं भाष्य उक्तत्वात् । यथा क्रान्तिभोग्यखण्डस्य विश्वांशकेन १३ शरांशकेनर्णरूपेणान्यान्यृणरूपाण्यन्यगोलत्वाद्युक्तानि, यथा विश्वांशकेन युक्ता शरखण्डकैर्भिन्नगोलत्वादेकजात्योरन्तरं भिन्नजात्योर्योगः ॥ ७ ॥ अथ पातमध्यानयनमुपजातीन्द्रवज्राद्वयेनाह- आद्येऽल्पचापांशमितो गुणः स्याच्चापान्तरांशाः समखण्डकेषु। तिथिच्युतास्ते विषमेषु जह्यात्स्वां- शघ्नखण्डानि तिथिघ्नबाणात् ॥ ८॥ शेषं त्वशुद्धेन हृतं लवाद्यं संशुद्धखण्डाशयुतं. विभक्तम् । CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri