पृष्ठम्:करणकुतूहलम्.djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । ( १३७ ) • । १० । १८ एभिः पूर्वकलादपि ५। ४७ गतपात- त्वात् पातमध्यं गतमेवं कार्तिककृष्णे नवम्यां शेषरात्रि घटी १६।५समये पातमध्यं ज्ञेयं पातमध्यसमयिकाद्रविचन्द्रपातान् तात्कालिकान् कृत्वा रवेः क्रान्तिः साध्योभयोः क्रान्तिसाम्यं तदा पातमध्यं शुद्धं नान्यथा यथा रविः६ । १२।२६। ४२ चन्द्रः४।८।१०। १० पातः२।१।१।३२ सूर्यक्रान्तिः १२ । ५४ । ३१ सूर्यक्रान्तिः १२।५४ । ३२ उच्चं शरः ४८।४८ कलादि दक्षिणं शरसंस्कृता क्रान्तिः १२ । ११ । ४३ सूर्यक्रान्तिः ११ । ५६ । ४२ उभयोः साम्यं स्वल्पत्वान्न दोषाय ॥ ९ ॥ अथ विशेषमाह प्रमाणिकया- अपक्रमस्य भोग्यकं यदेषु खण्डतश्च्युतम्।गतै- ष्यताविपर्ययात्तदात्र पातसाधने ॥१०॥ चन्द्रकान्तेर्यद्भोग्यखण्डं तद्यदा शरखण्डाभोग्याच्छुद्ध्य- ति तदा गतैष्यस्य व्यत्ययत्वं स्याद्गतः पात एष्यो ज्ञेय एष्यो गतो ज्ञेयः ॥१०॥ अथ स्थितिसाधनं प्रमाणिकयाह- अशुद्धखण्डभाजितास्त्रिखाश्चिदस्रनाडिकाः। स्थि- तिश्च मध्यपूर्वतोऽग्रतोऽपि तत्प्रमाणिका ॥११॥ त्रिखाश्चि २०३ हताः नाडिकाः पूर्वागतेनाशुद्धखण्डेन भाज्या लब्धं घट्यादि मध्यकालात्पूर्व स्थितिस्तत्प्रमा- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri