पृष्ठम्:करणकुतूहलम्.djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१४१) चन्द्रः ११ ।२० । ५८ । २९ बाणः कलादिः ४२ । ४४ याम्यः,: अथ पातस्य गतैष्यज्ञानं सायनचन्द्रो विषमे पदे सपातचन्द्रादेकगोले तेन गतपातो ज्ञेयः। अथसाधनं सायनचन्द्रस्य सर्वभागाः २३५।२१।५१ तिथिभक्ता लब्धं क्रान्तेर्गतखण्डकानि १५ भोग्यखण्डम् २३६ शेषम् १० । २१ । ५१ अस्यसपातचन्द्रस्य भागाः ३५० । ५८ । २९ तिथि १५ अक्ते लब्धम् २३ शरस्य गतखण्डकानि भोग्यखण्डकमृणम् ७० शेषम् ५ । ५८ । २९ गणना पूर्वस्थापितखण्डकेभ्यो धनर्णसंज्ञा च कार्या गतपातत्वादुभयत्र ये शेषांशास्त एव चापांशा ज्ञेयाः शरस्या- ल्पचापांशत्वाद्भोग्यखण्डं शरस्यैकस्थं गतपातत्वात्क्रान्तिश- रखण्डकानि गतानि विस्थापितानि द्वित्रीणीत्युक्तत्वात्खण्ड- द्वयं द्विधा स्थापितमल्पशरत्वात्पूर्वमुदाहरणं भाष्याद्यपेक्षया कृतमिदानीं सर्वसम्मतमुच्यते शरसंस्कारविषये विश्वांशकेना- पमभोग्यस्यैतस्यापि संस्कारेऽपि गोलस्यापेक्षया कर्तव्या किन्त्वेकजात्योर्योगो भिन्नजात्योरन्तरमित्यर्थः।उभयोर्धनरू- पयोस्तथार्णरूपयोर्योग एव कार्यः भेदेऽन्तरं कार्यमित्यर्थ इति सर्वसम्मितसंस्कारः। अथ क्रान्तिभोग्यखण्डस्य २३६ विश्वां- शकेन धनरूपेण धनसमरूपाणि क्रान्तिखण्डानि पूर्वस्थापिता- न्येकजातित्वाद्युतानि तान्येव शरखण्डकैः पूर्वस्थापितैर्ऋणरू- पैर्भिन्नजातित्वाद्रहितानि गोलापेक्षया न कृता । अथ शरम् CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri