पृष्ठम्:करणकुतूहलम्.djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

- गणककुमुदकौमुदीटीकासमेतम् । (१४७) इतश्चत्वारः श्लोकाः शार्दूलविक्रीडितेनाह-शकः पञ्चदि- क्चन्द्रहीन इत्यादिनाधिमासैर्युगूर्घ्व इत्यन्तेन साधितो मासगणो द्वाभ्यां गुणनीयस्त्रिभिर्भाज्यो लब्धाङ्को भागादिर्द्विसप्तत्युत्तर- द्विशत्या २७२ युतः कार्यः ततो वर्षाणां करणगताब्दानाम- भ्रदस्रांशेन २० विंशतितमांशेन युक्तः कार्य एवंभूते तस्मि- न्नंशाद्ये बह्वाचार्योक्तार्कघटीफलं पञ्चभि ५र्भक्तं तद्यथा- सम्भवं धनमृणं कार्यमेवं तस्मिन्नंशाद्ये मासगणतुल्यै राशिभी राशिस्थाने युतं कार्यमथ रवेर्ग्रहणसम्भवे राश्यर्द्धेन पञ्चदश- भिरंशैः पूर्वागतं राश्यादियुतं कार्य ततस्तस्य भुजः कार्यस्त- स्यांशाः स्वीयेनार्द्धेन सहिताः शरोऽङ्गुलादिः स्यात्सूर्यग्रहणे राश्यर्द्धयुक्तो यस्मिन् गोले तद्दिक् ज्ञेया । यथा शके १५४२ मार्गशीर्षपूर्णिमा बुधे गताब्दाः ४३७ मासगणः ५४१४ द्विगुणः १०८२८ त्रिभक्तो लवादि ३६०९ । २० द्विभ २७२ युतः ३८८१ । २० गताब्दाः ४४७ एषामभ्रदस्रां- शेन २१ । ५१ युक्तः ३९०३ । ११ धनुषः पूर्वपक्षार्कघ- टीफलम् ३ पञ्चभि ५ र्भक्तं लब्धमंशायम् । ३६ पूर्वस्मिन् ३९०३ । ११ कर्कादित्वादृणम् ३९०२ । ३५ अयमं- शादी राश्यादिकृतस्त्रिंशद्भक्ते लब्धं राश्यादयः १३० । २। ३५। ० राशिस्थाने मासगणः ५४१४ युतः ५५४४।२ ३५। ० राशिस्थाने द्वादशभिर्भक्ते लब्धम् ४६२ लब्धस्य 0 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri