पृष्ठम्:करणकुतूहलम्.djvu/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१४९) नतास्तद्वेदांशमिता नतिश्च विशिखस्तत्संस्कृतोऽ- र्कग्रहे ॥२॥ दर्शान्तकालीनं नतं कृत्वा तस्यांघ्रिश्चतुर्थांश इति नतघ- टिकानां चतुर्भि ४ र्भागे लब्धराशयः शेषं त्रिंशद्भिः सङ्गुण्य पुनश्चतुर्भिर्भागे हृते लब्धा भागाः शेषं षष्टया सङ्गुण्य चतुर्भक्ते लब्धं कला एवं राश्यादिफलं ग्राह्यं तेन दर्शान्तका- लिको गृहाद्यो रविः प्राक्कपाले रहितः पश्चिमकपाले युक्त इति कृत्वा स एवायनांशैर्युक्तस्तस्य भुजं कृत्वा तेन भुजेनोना हता- श्च शैलाः ७ सप्त कार्याः स लवादिक्रान्तिर्भवति ततः शरः स्वाक्षवशेन प्राग्वन्नतांशाः साध्यास्तेषां चतुर्थांशो नतिः स्यात्तया प्रागानीतः शरः संस्कृतः सन् स्फुटो भवति यथा दर्शान्तः २८ । ५६ दिनार्द्धम् १६ । ४३ अनयोरन्तरं घट्यादिनतम् १२। ४३ पश्चिमं चतुर्भक्ते लब्धं राशयः ३ शेषम् ० । १३ त्रिंशद्गुणम् ६।३० चतुर्भक्तं लब्ध- मंशाः १ शेषम् २ । ३० षष्टिगुणम् १५० चतुर्भक्ते लब्धं कलाः ३७ शेषम् २ षष्टिगुणम् १२० चतुर्भक्तं लब्धं विकलाः ३० एवं राश्यादिना ३ । १।३७ । ३० अमावा- स्यान्तकालीनः स्पष्टो वा गतेष्टनाडीत्यादिना स्थूलोऽपि रविः ३। ० । ३५। ३४ पश्चिमनतत्वाद्युतः ६।२।१३।४ अयनांशैः १७ । ५७ युतः ६।२० । १० । २४ अस्य ० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri