पृष्ठम्:करणकुतूहलम्.djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

० (१५०) करणकुतूहलम्। भुजः ।२०।१०।२४ अनेन सप्त ७ राशय ऊनाः ६।९। ४९ । ३६ पुनर्भुजेनैव ० । २० । १० । २४ गुणिता गोमूत्रिकया २।४।२० द्विगुणाः ५ । २० । ४० जातांशादिः क्रान्तिः संस्काररहिता सायनोऽर्को याम्य- गोलेऽस्माद्याम्या याम्याक्षांशैः २४ । ३५। ९ संस्कृता जाता नतांशा याम्याः २९॥ ५५॥४९ चतुर्भक्ता ७।२७ जाता नतिर्याम्यानया पूर्वानीतसौम्यशरः३ । ७ संस्कृतो भिन्नदि- क्त्वादन्तरम् ४।२० जातः स्पष्टशरः सौम्यः ॥ २ ॥ अथ ग्रहणसम्भवासम्भवमाह- गोचन्द्रा हिमगोर्भवाश्च तरणेमानैक्यखण्डं शरे तन्न्यूने ग्रहणं भवेदिति बुधैश्चिन्त्यः पुरा सम्भवः। चक्राद्यः खलु मध्यमार्कतमसोर्योगो द्विनिघ्नो द्वियु- क्पर्वेशो मुनिभक्तशेषकमितो ज्ञेयो विरंच्यादिकः॥३॥ गोचन्द्राइति-गोचन्द्रा एकोनविंशतिश्चन्द्रस्य मानैक्यार्द्धं शरं चन्द्रशरं मानैक्यार्द्धादूने सति ग्रहणं भवेदिति विद्वद्भिः पूर्व सम्भवो ज्ञेयः यथा चन्द्रशरः ३ । ५२ मानैक्यार्द्धात् १९ ऊनस्तेन चन्द्रग्रहणसम्भवोऽस्ति ततश्चन्द्रग्रहणवत्सूर्यग्रहणसा- धनं कर्तव्यं सूर्यस्पष्टशरः ४।२० सूर्यस्य मानक्यार्द्धात् ११ ऊनस्तेन सूर्यस्य ग्रहणसम्भवोऽस्ति तस्य साधनं पूर्ववच्चन्द्रग्रह- णस्य साधनं चन्द्रग्रहणोक्तवत्सूर्यग्रहणस्य साधनं सूर्यग्रहणोक्त- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri