पृष्ठम्:करणकुतूहलम्.djvu/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१५२) करणकुतूहलम्। आसीदिति।स्पष्टार्थो ज्ञेयः॥४॥ इति श्रीकरणकुतूहले पर्वसम्भवासम्भवमाध्यायानः दशमः समाप्तिमगमत् ॥ १० ॥ अथ ग्रहणोपयोगी नीरदाध्यायो व्याख्यायते- समलिप्तीकृते भानौ राश्येकं शोधयेद्बुधः । अंश- का मनवश्चैव शेषं चक्राच्च पातयेत् ॥१॥ कलितं वर्गितं द्विघ्नं चक्रलिप्ताभिरुद्धरेत् । लब्धा- ढ्य इतरे सङ्गे तरोर्विश्वांशकैर्युतः ॥२॥ समलिप्तार्कसंयुक्ताच्छोधयेदुदयभास्करात् । य च्छेषमाद्यसंयुक्तं नीरदार्को हि संस्फुटः॥३॥ समकलसूर्यमध्य एकोराशिश्चतुर्दशांशाः १।१४।०० शोध्याः शेषं द्वादशराशिभ्यः १२ शोधयेत् तस्य कलाः कार्यास्तासां वर्गो विधेयः सद्विगुणः कार्यस्तं चक्रकलाभिः २१६०० भजेत् लब्धस्य पृथक् स्थापितस्य आढ्य इति संज्ञा कर्तव्या य इति संज्ञः स त्रयोदशभि १३ रंशैर्युतः समकलसूर्ये योज्यस्तत औदयिकः सूर्यः शोध्यो यच्छेषं तत् पूर्वकृताढ्यसंज्ञेन युतं सन्नीरदार्कः स्फुटो भवति । यथा चन्द्रग्रहणे समकलसूर्ये ८०।१६।१० एकोराशिरं- शाश्चतुर्दश १।१४।०० शुद्धाः शेषम् ६।१६।१६।१० चक्रात् १२शुद्धः ५।१३।४३।५० अस्य कलाः ९८- २३।५० आसां वर्गः ९६५०७७०१ । २१ द्विघ्नः टि०-१ भयं नीरदाध्यायः केनचित् प्रक्षिप्त इति प्रतिभाति । CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri