पृष्ठम्:करणकुतूहलम्.djvu/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१५३) १९३०१५४०२।४२चत्रकलाभिः २१६०० भक्ते लब्धं कला दि८९३५।५३षष्टिभक्तं लब्धमंशादि १४८।५५।५३ त्रिंशद्भक्तं जातं राश्यादिः ४।२८।५५॥५३ एतस्य राश्या- दिकस्याढ्य इतरसंज्ञकस्त्रयोदशभिरंशैः १३ युतः ५।११। ५५।५३ समकलसूर्ये ८।०।१६।१० युतः१।१२।१२। ३ औदयिकसूर्यात् ७।२९।३५।२० शुद्धः शेषम् ६।१७ । २३।१७ आढ्येन ४।२८।५५।५३ युक्तम् ११।१६।१९ १० अयं नीरदार्कोत्र स्पष्टो ज्ञेयः ॥ ३ ॥ अस्य प्रयोजनमाह- रविभौमांशकं दृष्ट्वा निरभ्रं ग्रहमादिशेत् । शनि- सौम्यनवांशे चेत्सलिलं क्षुद्रवर्षणम् ॥ ४॥ शशि- शुक्रनवांशे च प्रावृट्काले महज्जलम् । गुरोरंशक- मासाद्य दृश्यते सबलाहकः ॥५॥ ग्रहणे वा विलग्ने वा मेघच्छायां विजानतः । तस्याहं पादयु- गलं कुसुमाञ्जलिनार्चये ॥६॥ इति श्रीभास्कराचार्यविरचिते करणकुतूहले नीरदार्कविचाराध्यायःसमाप्तः ॥११॥ यदि नीरदार्को रविभौमनवांशके भवति तदा मेघो नास्ति शनिबुधनवांशके क्षुद्रवर्षणं स्वल्पवर्षणं चन्द्रशुक्रनवांशके प्रभू तप-र्जन्यो मेघः गुरुनवांशे यदा तदा सवातं क्षुद्रवर्षणम् ॥ ५॥ - CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri