पृष्ठम्:करणकुतूहलम्.djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
(१२)
करणकुतूहलम्।

स्वक्षेपेण २।४।०।५१ युतो जातो ३६।११।१२।३९।२७ मध्यम इन्द्रमन्त्री गुरुः॥ अथ शुक्रशीघ्रोच्चानयनमुपजात्युत्तरार्द्धेणेन्द्रवज्रापूर्वार्धेनाह-

नृपाहतोह्नां निचयो द्विधासौ भूबाणवेदादिभि७४ ५१ रभ्रचन्द्रैः॥११॥ भक्तो लवाद्यं फलयोर्यदैक्यं तज्जायते दैत्यगुरोश्चलोच्चम्।  अह्नां दिनानां निचयो गणो नृपैः षोडशभिः १६ आहतो गुणितोऽयं पुनर्भूबाणवेदाद्रिभिरेकपञ्चाशदुत्तरचतुःसप्ततिशतैः ७४५१ भक्तस्तथा यमानचन्द्रैः१० दशभिश्चेति द्विधा प्रकार- द्वयेन भक्त एवं लब्धस्य फलद्वयस्य यदैक्यं योगस्तद्दैत्यगुरोः - शुक्रस्यांशादिकं चलोच्चं जायते । यथाहर्गणः१५९३१६ नृपैः १६ हतः२५४९०५६ एकत्र भूबाणवेदाद्रिभिः ७४ ५१ भक्तः ३४२।६।३३ अपरत्र दशभक्तोंशादिः २५४९ ०५॥३६।० उभयोरैक्यम् २५५२४७।४२।३३ पूर्ववद्भगणादिः ७०९।०।७।४२॥३३ स्वक्षेपेण ८।१८।५।५५ युतो जातं शुक्रशीघ्रोच्चम् ७०९।८।२५।४८।२८ ॥११॥

 अथेन्द्रवज्रोत्तरार्द्धेन शनिमाह-  भक्तोऽभ्ररामै ३० स्तुरगांगरामनन्दै ९३६७  र्द्विधांशादिफलैक्यमार्किः ॥ १२ ॥  यथाहर्गणः १५९३१६ द्विधैकत्राभरामैस्त्रिंशद्भिः ३० भक्तो लब्धम् 531032।0 अपरत्र. तपाङ्गरामनन्दैः cc-o. Kashmir Research Institute, srinagar Digitized by Gangotri.