पृष्ठम्:करणकुतूहलम्.djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
(१३)
गणककुमुदकौमुदीटीकासमेतम् ।

सप्तषष्ट्युत्तरत्रिनवतिशतैः ९३६७ भक्तो लब्धम् १७।०।२९ उभयोरैक्यमंशादिः ५३२७।३२।२९ प्राग्वद्भगणादिः १४। ९॥३२॥२९ स्वक्षेपेण ४।३।४३।१७ युतो जातो १५॥१॥२१।१५।४६ मध्यमार्किः शनिर्मध्यमः ॥ १२ ॥

अथ सूर्यादीनां मध्यगतिं शार्दूलविक्रीडितेनाह-
नन्दाक्षाभुजगारवेः शशिगतिः खांकादयोऽक्षाग्नय-
स्तुंगस्यांगकलाः कुवेदविकलाः पातस्य रामा
भवाः । माहेयस्य महीगुणा रसयमाक्षस्येषुसिद्धा
रदाः पञ्चेज्यस्य सितस्य षण्णवमिताश्चाष्टौ शने-
र्द्वैकले ॥

  रवेः सूर्यस्य नन्दाक्षा एकोनषष्टिः कलाः भुजगा अष्टौ विकलाः ५९।८ गतिः। शशिनश्चन्द्रस्य गतिः खांकाद्रयो नवत्युत्तरसप्तशतकलाः अक्षामयः पञ्चत्रिंशद्विकलाः ७९०। ३५अङ्गाःषट् कलाः कुवेदा एकचत्वारिंशद्विकलाः६।४१चन्द्रोच्चस्य । रामास्त्रयो भवा एकादश चन्द्रपातस्य गतिः ३।११। महीगुणा एकत्रिंशत्कला रसयमाः षड्विंशतिर्विकला भौमस्य ३१।२६।इषुसिद्धाः पञ्चचत्वारिंशदधिकद्विशतीकला रदाःद्वात्रिंशद्विकला बुधशीघ्रस्य२४५।३२॥पञ्चकला ईज्यस्य गुरोः ५।०। षण्णवतिकला अष्टौ विकलाः शुक्रशीघोच्चस्य ९६।८।कलाद्वयं शनेः २।०अनया भुक्त्या युतोऽग्रिमदिनस्य मध्यमो भवति । इयं भुक्तिरल्पोत्तरत्वात्सुखार्थं प्रति विकलां

CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri