पृष्ठम्:करणकुतूहलम्.djvu/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४) करणकुतूहलम् । विहायाचार्येणोक्ता विशेषश्चात्रैकमहर्गणं प्रकल्प्याहर्गणो विश्वगुण इत्यादिना स्वस्वकरणविधिना कते स्वस्वगतयो भवन्ति।उक्तञ्च'महीमिता १दहर्गणात्फलानि यानि तत्कलाः। भवन्ति मध्यमाः क्रमान्नभः सदां द्युभुक्तयः" इति परमियं गतिः कक्षाया लघुमहत्त्वेन कलादिकायहणाद्भिन्ना भवति । योजना- त्मिका तु दिनगतिःसर्वदा सर्वेषाम् ११८५८ । ४५ समानैव ज्ञेया। कल्पे १८७२०६९२०००००००0 • एतावन्ति योज- नानि सर्वे समाना भ्रमन्तीत्यूह्यं चद्रोच्चं विनान्येषां मन्दोच्चानां गतयो लिख्यन्ते ग्रन्थान्तरात्। वर्षेः सप्ततिनिर्विकलैका रवेर्म- न्दोच्चस्य गतिः । द्वादशभिर्वर्षर्विकलैका भौमस्य । बुधस्य वर्षै- र्द्वादशभिः । बृहस्पतेश्चतुर्भिः। शुक्रस्य पञ्चभिः। शनेरेकाद- शभिर्वर्षरेका विकला । पुनरुक्तं संवत्सरायुतैः 10000 तेषां गतयः स्युः कलादिकाः प्रायशत्रयोदशभिर्वर्षे रेका विकला भौमपातस्य गतिः।साधिकैः षड्भिर्वर्षैरेका विकला बुधपातस्य गतिः। किश्चिन्न्यूनैश्चतुःपञ्चषडभिर्वर्षैरेका विकला गुरुपातस्य। किञ्चिन्न्यूनैश्चतुरभिर्वर्षैरेका विकला भृगुपातस्य । किश्चिन्न्यूनैः षडभिर्वर्षैरेका विकला शनिपातस्य ॥ १३ ॥ अथ देशान्तरोपयायिनीं भूमध्यरेखां भुजङ्ग पुरी रक्षसां देवकन्याथ कान्ती सितः पर्वतः पर्य्य- लीवत्सगुल्मम् । पुरी चोज्जयिन्याह्वया गर्गराटं कुरुक्षेत्रमेरू भुवो मध्यरेखा DERESHAT RHEIRhinSARIETrMagh Bigtized by eGangotri ० तेषां प्रयातनाह-